श्रीत्यागेशस्तुतिः PDF संस्कृत
Download PDF of Tyageshastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीत्यागेशस्तुतिः संस्कृत Lyrics
|| श्रीत्यागेशस्तुतिः ||
यस्याज्ञया नवच्छिद्रे स्तब्धस्तिष्ठति मारुतः ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ १॥
शासनात् पावको यस्य सर्वेषामन्तरा स्थितः ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ २॥
बडबामुखवह्निश्च ज्वलत्यब्धौ यदाज्ञया ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ३॥
भूतान्यपि विरुद्धानि मिलितानि यदाज्ञया ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ४॥
कलमन्वेति कर्तारं कर्मणां यस्य शासनात ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ५॥
विनाधारं जगद्येन साधारमिव निश्चलम् ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ६॥
औषधे वा मणौ मन्त्रे भाति शक्तिर्यदाज्ञया ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ७॥
नात्येति समयं ज्योतिः सिन्धुः कालश्च यद्भयात् ।
तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ८॥
ब्रह्माच्युताद्यविदितं च शिरः पदं ते
नासा शिलाविहित ? ? सुहृत् प्रियायाः ।
तस्मै नमोऽस्तु भवते प्रणतार्तिहन्त्रे
त्यागेश्वराय मयि देहि दयावलोकम् ॥ ९॥
इति श्रीत्यागेशस्तुतिः सम्पूर्णा ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीत्यागेशस्तुतिः
READ
श्रीत्यागेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
