वरदवल्लभसतोत्रम् अथवा चतुःश्लोकी PDF संस्कृत
Download PDF of Varadavallabhastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
वरदवल्लभसतोत्रम् अथवा चतुःश्लोकी संस्कृत Lyrics
|| वरदवल्लभसतोत्रम् अथवा चतुःश्लोकी ||
यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं
वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजस्सदयितः त्वद्दासदासीगणः
श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥ १॥
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपिप्रभु-
र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो
लोकैकेश्वरि ! लोकनाथदयिते ! दान्ते दयान्ते विदन् ॥ २॥
ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते
नष्टं प्राक्तदलाभतस्त्रिभुवनं सम्प्रत्यनन्तोदयम् ।
श्रेयो नह्यरविन्दलोचनमनः कान्ताप्रसादादृते
संसृत्याक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित् ॥ ३॥
शान्तानन्तमहाविभूतिपरमं यद्ब्रह्मरूपं हरे-
र्मूर्ते ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणितान्-
याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥ ४॥
आकारत्रयसम्पन्नामार्विन्दनिवासिनीम् ॥
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥ ५॥
इति श्रीमद्यामुनमुनिविरचितं श्रीवरदवल्लभसतोत्रं सम्पूर्णम् ।
अथवा इति श्रीमद्यामुनमुनिविरचिता चतुःश्लोकी समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowवरदवल्लभसतोत्रम् अथवा चतुःश्लोकी
READ
वरदवल्लभसतोत्रम् अथवा चतुःश्लोकी
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
