श्रीवेङ्कटेश्वर द्वादशमञ्जरिकास्तोत्रम् PDF संस्कृत
Download PDF of Venkateshvaradvadashapanjarika Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीवेङ्कटेश्वर द्वादशमञ्जरिकास्तोत्रम् संस्कृत Lyrics
|| श्रीवेङ्कटेश्वर द्वादशमञ्जरिकास्तोत्रम् ||
श्रीरस्तु ॥
श्री कल्याण गुणोल्लासं चिद्विलासं महौजसम् ।
शेषाद्रिमस्तकावासं श्रीनिवासं भजामहे ॥ १॥
वाराहवेष भूलोकं लक्ष्मीमोहन विग्रहम् ।
वेदान्त गोचरं देवं वेङ्कटेशं भजामहे ॥ २॥
साङ्गाना मर्चिताकारं प्रसन्न मुखपङ्कजम् ।
विश्वविश्वम्भराधीशं वृषाद्रीशं भजामहे ॥ ३॥
कनत्कनक वेलाढ्यं करुणा वरुणालयम् ।
श्री वासुदेव चिन्मूर्तिं शेषाद्रीशं भजामहे ॥ ४॥
घनाघनं शेषाद्रि शिखरानन्द मन्दिरम् ।
श्रितचातक संरक्षं सिंहाद्रीशं भजामहे ॥ ५॥
मङ्गळत्रं पद्माक्षं कस्तूरी तिलकोज्ज्वलम् ।
तुलस्यादि मनःपूज्यं तारागण विभूत्वमे ॥ ६॥
स्वामिपुष्करिणी तीर्थ वासं व्यासाभिः वर्णितम् ।
स्वाङ्घ्रीसूचित हस्ताब्जं सत्यरूपं भजामहे ॥ ७॥
श्रीमन्नारायणं श्रीशं ब्रह्माण्डा वसन तत्परम् ।
ब्रह्मण्यं सच्चिदानन्दं मोहातीतं भजामहे ॥ ८॥
अञ्जनाद्रीश्वरं लोकरञ्जनं मुनिरञ्जनम् ।
भक्तार्ति भञ्जनं भक्त पारिजातं तमाश्रये ॥ ९॥
भिल्ली मनोहर्यं सत्य मनन्तं जगतां विभुम् ।
नारायणाचलपतिं सत्यानन्दं तमाश्रये ॥ १०॥
चतुर्मुखत्र्यम्बकाढ्यं सन्नुतार्य कदम्बकम् ।
ब्रह्म प्रमुखनित्रानं प्रधान पुरुषाश्रये ॥ ११॥
श्रीमत्पद्मासनाग्रस्थ चिन्तितार्थ प्रदायिकम् ।
लोकैक नायकं श्रीमद् वेङ्कटाद्रीश माश्रये ॥ १२॥
वेङ्कटाद्रि हरेः स्तोत्रं द्वादश श्लोक संयुतम् ।
यःपठेः सततं भक्त्या तस्यमुक्तिः करे स्थिता ॥ १३॥
सर्वपापहरं प्राहुः वेङ्कटेशस्तदोच्यतेः ।
त्वन्नामको वेङ्कटाद्रिः स्मरतो वेङ्कटेश्वरः
सद्यः संस्मरणादेव मोक्ष साम्राज्य माप्नुयात् ॥ १४॥
वेङ्कटेश्वर पदद्वन्द्यं प्रजामिस्र स्मरणं सदा ।
भूयाश्शरण्योमे साक्षाद्देवेशो भक्तवत्सलः ॥ १५॥
॥ श्री वेङ्कटेश्वर द्वादश मञ्जरिका स्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीवेङ्कटेश्वर द्वादशमञ्जरिकास्तोत्रम्
READ
श्रीवेङ्कटेश्वर द्वादशमञ्जरिकास्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
