विकटस्तुतिः देवर्षिभिः प्रोक्ता PDF संस्कृत
Download PDF of Vikatastutihdevarshibhihprokta Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
विकटस्तुतिः देवर्षिभिः प्रोक्ता संस्कृत Lyrics
|| विकटस्तुतिः देवर्षिभिः प्रोक्ता ||
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच –
कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः ।
विस्मिता विकटं पूज्यं तुष्टुवुः करसम्पुटाः ॥ १॥
देवर्षय ऊचुः
अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् ।
असद्विहीनं विविधान्तरस्थं भजामहे तं विकटं परेशम् ॥ २॥
अनादिमध्यान्तविवर्जितं यत्सुजीवनं जीवनधर्मधारम् ।
सदाऽमृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥ ३॥
त्वयैव माया रचिता स्वबिम्बात् स्वयं दधौ जीवनबिम्बवीर्यम् ।
बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥ ४॥
तथा ह्यसद्रूपमयं च साङ्ख्यं कृतं तथा ब्रह्म सुबोधरूपम् ।
अनन्तभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥ ५॥
ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् ।
जगद्वरं बिन्दुमयं तथा वै भजामहे तं विकटं परेशम् ॥ ६॥
जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् ।
अजेषु सञ्जीवनदं गणेशं भजामहे तं विकटं परेशम् ॥ ७॥
ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ! ।
अनन्तलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥ ८॥
अजैर्विहीनोऽसि गजानन! त्वं तथाऽपि सर्वत्र विभासि भक्त्या ।
अतो गणेशं विकटं वदन्ति भजामहे तं विकटं परेशम् ॥ ९॥
हरिस्वरूपेण विनायक! त्वं सुरक्षसीदं रजसा विधाता ।
तथा तमोयुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥ १०॥
प्रसृष्टकर्माणि तदन्तरस्थोर्यमाऽसि सञ्जीवनरूपकेण ।
क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥ ११॥
सदात्मरूपेण च ढुण्ढिराज! स्थितोऽसि विश्वम्भर विश्वमूर्ते! ।
न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥ १२॥
सदाऽऽदिपूज्यं सकलैः सुवन्द्यं गणेशसिद्धिप्रदमासमन्तात् ।
सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥ १३॥
स्वानन्दनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् ।
महोदरं चैकरदं विभूपं भजामहे तं विकटं परेशम् ॥ १४॥
स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च ।
अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥ १५॥
नियन्तृरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसु प्रभो! ।
महाङ्कुशं ह्यङ्कुशधारमेकं भजामहे तं विकटं परेशम् ॥ १६॥
भ्रमात्मकं बन्धनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् ।
स्वभक्तिकृद्वन्धनहानिकारं भजामहे तं विकटं परेशम् ॥ १७॥
त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च ।
प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥ १८॥
निजामृतं विघ्नपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् ।
सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥ १९॥
असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशान्तिसंस्थम् ।
अतो वदन्ते विकटं जनास्त्वां भजामहे तं विकटं परेशम् ॥ २०॥
वयं स्तुवीमोऽल्पसुबोधगाः किं प्रभुं न शक्यं निगमादिभिश्च ।
शुकादिभिः स्तोतुमपारगं यं भजामहे तं विकटं परेशम् ॥ २१॥
तथापि ते दर्शनजेन नाथ बोधेन ब्रह्मेश! सुसंस्तुतोऽसि ।
अतः प्रतुष्टो भव दीनपाल! भजामहे तं विकटं परेशम् ॥ २२॥
आदिशक्तिरुवाच ।
एवं स्तुत्वा महादेव्यो विकटं त्वमरर्षयः ।
प्रणेमुर्दण्डवत् सर्वे ततश्च ननृतुः पुरः ॥ २३॥
स तानुवाच सर्वेशो विकटो भक्तियन्त्रितः ।
देवर्षीन् भक्तिसंयुक्तान् भक्तवात्सल्यवान् प्रभुः ॥ २४॥
(फलश्रुतिः ।)
विकट उवाच –
इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् ।
भविष्यति जनायैव पठते शृण्वते परम् ॥ २६॥
भक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् ।
धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः ॥ २७॥
षट्कर्मसाधनकरं परकृत्यविनाशनम् ।
नानारोगहरं पूर्ण भविष्यति सुसेविनाम् ॥२८॥
कारागृहगतानां च बन्धमोक्षकरं भवेत् ।
सहस्रावर्तनेनैव सदा सौभाग्यवर्धनम् ॥२९॥
नानापापसमूहानां दाहकं पठनात्तथा ।
सर्वसिद्धिकरं चैव भविष्यति न संशयः ॥३०॥
एकविंशतिवारं यः पठिष्यति निरन्तरम् ।
स सर्व साधयेत् सद्यो दिनानामेकविंशतिम् ॥३१॥
इति देवर्षिभिर्प्रोक्ता विकटस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowविकटस्तुतिः देवर्षिभिः प्रोक्ता
READ
विकटस्तुतिः देवर्षिभिः प्रोक्ता
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
