विकटस्तुतिः कामासुरेण प्रोक्तम् PDF संस्कृत
Download PDF of Vikatastutihkamasurenaproktam Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
विकटस्तुतिः कामासुरेण प्रोक्तम् संस्कृत Lyrics
|| विकटस्तुतिः कामासुरेण प्रोक्तम् ||
॥ श्रीगणेशाय नमः ॥
कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः ।
विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥ ३२॥
प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् ।
तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥ ३३॥
कामासुर उवाच –
नमस्ते विकटायैव गणेशाय परात्मने ।
सर्वपूज्याय सर्वेश! देवासुरमयाय च ॥ ३४॥
अनन्तमाययायुक्त! ब्रह्मभूतस्वरूपिणे ।
गजाननाय हेरम्ब! देवेशाय नमो नमः ॥ ३५॥
शूर्पकर्णाय विघ्नानां चालकाय नमो नमः ।
भक्तानां विघ्नहर्ते ते ह्यभक्तानां विनाशिने ॥ ३६॥
स्वानन्दवासिने तुभ्यं योगाकारस्वरूपिणे ।
योगिभ्यः शान्तिदात्रे ते योगेशाय नमो नमः ॥ ३७॥
अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे ।
ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥ ३८॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥ ३९॥
त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च ।
लम्बोदराय ब्रह्मेश! ब्रह्मणां पतये नमः ॥ ४०॥
देवानां पालकायैव दैत्येभ्यो वरदायिने ।
सर्वेषां समभावाय ढुण्ढिराजाय ते नमः ॥ ४१॥
विष्णुपुत्राय शम्भोश्च शक्तेः पुत्राय काश्यप! ।
वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥ ४२॥
किं स्तौमि त्वां गणाधीश! यत्र योगीन्द्रमुख्यकाः ।
वेदादयो विशेषेण शान्तिं प्राप्ताः स्वभावतः ॥ ४३॥
मायासुखं विशेषेण भ्रान्तिदं सर्वजन्तवे ।
त्यक्त्वा तल्लभ्यसे नाथ! भक्त्या विकटया प्रभो! ॥ ४४॥
अशान्तं मायया युक्तं चित्तं भ्रान्तियुतं सदा ।
विकटे शान्तिमापन्नमतस्त्वं विकटो मतः ॥ ४५॥
एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् ।
कामासुरो ननर्ताऽसौ रुद्धकण्ठो महायशाः ॥ ४६॥
(फलश्रुतिः ।)
भक्तियुक्तं मनस्तस्य दृष्ट्वा तं विकटोऽवदत् ।
वरं वरय काम त्वं दास्यामि मनसीप्सितम् ॥ ४७॥
त्वां हन्तुं क्रोधयुक्तोऽहं समागतो न संशयः ।
अधुना न हनिष्यामि शरणागतमादरात् ॥ ४८॥
त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् ।
शृण्वते पठते चैवान्ते स्वानन्दप्रदायकम् ॥ ४९॥
एवं गणपतेर्वाक्यं श्रुत्वा कामासुरश्च तम् ।
प्रणम्य हर्षसंयुक्तो जगाद द्विरदाननम् ॥ ५०॥
इति कामासुरेणप्रोक्ता विकटस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowविकटस्तुतिः कामासुरेण प्रोक्तम्
READ
विकटस्तुतिः कामासुरेण प्रोक्तम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
