विश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम् PDF संस्कृत
Download PDF of Vishvamurtistotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
विश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम् संस्कृत Lyrics
|| विश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम् ||
श्रीगणेशाय नमः ॥
अकारणायाखिलकारणाय नमो महाकारणकारणाय ।
नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥ १॥
नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय ।
वेदान्तवेद्याय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ २॥
नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु ।
ब्रह्मण्यदेवाय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ३॥
कालाय कालानलसन्निभाय हिरण्यगर्भाय नमो नमस्ते ।
हालाहलादाय सदा नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ४॥
विरिञ्चिनारायणशक्रमुख्यैरज्ञातवीर्याय नमो नमस्ते ।
सूक्तातिसूक्ष्माय नमोऽघहन्त्रे कृतागसं मामव विश्वमूर्ते ॥ ५॥
अनेककोटीन्दुनिभाय तेऽस्तु नमो गिरीणां पतयेऽघहन्त्रे ।
नमोऽस्तु ते भक्तविपद्धराय कृतागसं मामव विश्वमूर्ते॥ ६॥
सर्वान्तरस्थाय विशुद्धधाम्ने नमोऽस्तु ते दुष्टकुलान्तकाय ।
समस्ततेजोनीधये नमस्ते कृतागसं मामव विश्वमूर्ते ॥ ७॥
यज्ञाय यज्ञादिफलप्रदात्रे यज्ञस्वरूपाय नमो नमस्ते ।
नमो महानन्दमयाय नित्यं कृतागसं मामव विश्वमूर्ते ॥ ८॥
इति स्तुतो महादेवो दक्षं प्राह कृताञ्जलिम् ।
यत्तेऽभिलषितं दक्ष तत्ते दास्याम्यहं धुवम् ॥ ९॥
अन्यच्च शृणु भो दक्ष यच्च किञ्चिद्ब्रवीम्यहम् ।
यत्कृतं हि मम स्तोत्रं त्वया भक्त्या प्रजापते ॥ १०॥
ये श्रद्धया पठिष्यन्ति मानवाः प्रत्यहं शुभम् ।
निष्कल्मषा भविष्यन्ति सापराधा अपि भुवम् ॥ ११॥
इति दक्षकृतं विश्वमूर्तिस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowविश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम्
READ
विश्वमूर्तिस्तोत्रम् अथवा विश्वमूर्त्यष्टकस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
