विश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम् PDF संस्कृत
Download PDF of Vishvanathanagaristotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
विश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम् संस्कृत Lyrics
|| विश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम् ||
श्रीगणेशाय नमः ॥
स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।
ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १॥
यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् ।
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ २॥
सर्वदाऽमरगणैश्च वन्दिता या गजेन्द्रमुखवारितविघ्ना । (सर्वदा ह्यमरवृन्दवन्दिता)
कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ३॥
यत्र तीर्थममलां मणिकर्णिका सा सदाशिवसुखप्रदायिनी ।
या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥ ४॥
(यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते स्मरणमात्रतः शुभा ।
साखिलामरगणस्पृहणीया विश्वनाथनगरी गरीयसी ॥ ५॥)
सर्वतीर्थकृतमज्जनपुण्यैर्जन्म जन्मसुकृतैः खलु लभ्या ।
प्राप्यते भवभवार्तिनाशिनी विश्वनाथनगरी गरीयसी॥ ५॥
यत्र शक्रनगरी तनीयसी यत्र धातृनगरी कनीयसी।
यत्र केशवपुरी लघीयसी विश्वनाथनगरी गरीयसी॥ ६॥
यत्र देवतटिनी प्रथीयसी यत्र विश्वजननी पटीयसी।
यत्र भैरवकृतिर्बलीयसी विश्वनाथनगरी गरीयसी ॥ ७॥
विश्वनाथनगरीस्तवं शुभं यः पठेत् प्रयतमानसस्सदा ।
पुत्रदारगृहलाभमव्ययं मुक्तिमार्गमनघं लभेत्सदा ॥ ८॥
उरगं तुरगं खगं मृगं वा करिणं केसरिणं खरं नरं वा ।
सकृदाप्लुत एव देवनद्यां लहरी किं न हरं चरीकरोति ॥ ९॥
इति श्रीमच्छङ्कराचार्यविरचितं विश्वनाथनगरीस्तोत्रं सम्पूर्णम् ॥
श्रीवेदव्यासविरचितकाश्यष्टकम् (?)
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowविश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम्
READ
विश्वनाथनगरीस्तोत्रम् अथवा काश्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
