विश्वकर्म सूक्तम् (यजुर्वेदीय) PDF संस्कृत
Download PDF of Vishwakarma Suktam Yajurvediya Sanskrit
Misc ✦ Suktam (सूक्तम संग्रह) ✦ संस्कृत
विश्वकर्म सूक्तम् (यजुर्वेदीय) संस्कृत Lyrics
|| विश्वकर्म सूक्तम् (यजुर्वेदीय) ||
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॑ निष॒सादा॑ पि॒ता न॑: ।
स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ १
वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् ।
तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्षीन्प॒र एक॑मा॒हुः ॥ २
यो न॑: पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो न॑: स॒तो अ॒भ्या सज्ज॒जान॑ ।
यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तग्ं स॑म्प्र॒श्नम्भुव॑ना यन्त्य॒न्या ॥ ३
त आय॑जन्त॒ द्रवि॑ण॒ग्ं सम॑स्मा॒ ऋष॑य॒: पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ ४
न तं वि॑दाथ॒ य इ॒दं ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रम्भवाति ।
नी॒हा॒रेण॒ प्रावृ॑ता जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥ ५
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् ।
कग्ं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे ॥ ६
तमिद्गर्भ॑म्प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ ।
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॑न्नि॒दं विश्व॒म्भुवन॒मधि॑ श्रि॒तम् ॥ ७
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्द्वि॒तीय॑: ।
तृ॒तीय॑: पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्य॑दधात्पुरु॒त्रा ॥ ८
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने ।
य॒देदन्ता॒ अद॑दृग्ंहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ ९
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् ।
सम्बा॒हुभ्यां॒ नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एक॑: ॥ १०
किग्ं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॒त्किमा॑सीत् ।
यदी॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥ ११
किग्ं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ ॥ १२
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः ॥ १३
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒युजं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥ १४
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः ।
मुह्य॑न्त्व॒न्ये अ॒भित॑: स॒पत्ना॑ इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु ॥ १५
विश्व॑कर्मन्ह॒विषा वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् ।
तस्मै॒ विश॒: सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथास॑त् ॥ १६
स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑ना॒म्पत॑ये॒ नम॑: ।
न॒दीना॒ग्ं सर्वा॑साम्पि॒त्रे जु॑हु॒ता
वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यग्ं ह॒विः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowविश्वकर्म सूक्तम् (यजुर्वेदीय)

READ
विश्वकर्म सूक्तम् (यजुर्वेदीय)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
