श्रीव्रजनवीनयुवद्वन्द्वाष्टकम् PDF संस्कृत
Download PDF of Vrajanavinayuvadvandvashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीव्रजनवीनयुवद्वन्द्वाष्टकम् संस्कृत Lyrics
|| श्रीव्रजनवीनयुवद्वन्द्वाष्टकम् ||
श्रीराधाकृष्णौ जयतः ।
अदुर्विधविदग्धतास्पदविमुग्धवेशश्रियो-
रमन्दशिखिकन्धराकनकनिन्दिवासस्त्विषोः ।
स्फुरत्पुरटकेतकीकुसुमविभ्रमाभ्रप्रभा
निभाङ्गमहसोर्भजे व्रजनवीनयूनोर्युगम् ॥ १॥
समृद्धविधुमाधुरीविधुरताविधानोद्धुरै-
र्नवाम्बुरुहरम्यतामदविडम्बनारम्भिभिः ।
विलिम्पदिव कर्णकावलिसहोदरैर्दिक्तटी
मुखद्युतिभरैर्भजे व्रजनवीनयूनोर्युगम् ॥ २॥
विलासकलहोद्धतिस्खलदमन्दसिन्दूरभा-
गखर्वमदनाङ्कुशप्रकरविब्र्हमैरङ्कितम् ।
मदोद्धुरमिवोभयोर्मिथुनमुल्लसद्वल्लरी
गृहोत्सवरतं भजे व्रजनवीनयूनोर्युगम् ॥ ३॥
घनप्रणयनिर्झरप्रसरलब्धपूर्तेर्मनो
ह्रदस्य परिवाहितामनुसरद्भिरस्रैः प्लुतम् ।
स्फुरत्तनुरुहाङ्कुरैर्नवकदम्बजृम्भश्रियं
व्रजत्तदनिशं भजे व्रजनवीनयूनोर्युगम् ॥ ४॥
अनङ्गरणविभ्रमे किमपि विभ्रदाचार्यकं
मिथश्चलदृगञ्चलद्युतिशलाकया कीलितम् ।
जगत्यतुलधर्मभिर्मधुरनर्मभिस्तन्वतो-
र्मिथो विजयितां भजे व्रजनवीनयूनोर्युगम् ॥ ५॥
अदृष्टचरचातुरीचलचरित्रचित्रायितैः
सह प्रणयिभिर्जनैर्विहरमानयोः कानने ।
परस्परमनोमृगं श्रवणचारुणा चर्चरी
चयेन रजयद् भजे व्रजनवीनयूनोर्युगम् ॥ ६॥
मरन्दभरमन्दिरप्रतिनवारविन्दावलि
सुगन्धिनि विहारयोर्जलविहारविस्फूर्जितैः ।
तपे सरसि वल्लभे सलिलवाद्यविद्याविधौ
विदग्धभुजयोर्भजे व्रजनवीनयूनोर्युगम् ॥ ७॥
मृषाविजयकाशिभिः प्रथितच्तुरीराशीभि-
र्ग्लहस्य हरणं हठात् प्रकटयद्भिरुच्चैर्गिरा ।
तदक्षकलिदक्षयोः कलितपक्षयोः साक्षिभिः
कुलैः स्वसुहृदां भजे व्रजनवीनयूनोर्युगम् ॥ ८॥
इदं वलिततुष्टयः परिपठन्ति पद्याष्टकं
द्वयोर्गुणविकाशि ये व्रजनवीनयूनोर्जनाः ।
मुहुर्नवनवोदयां प्रणयमाधुरीमेतयो-
रवाप्य निवसन्ति ते पदसरोजयुग्मान्तिके ॥ ९॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां
श्रीव्रजनवीनयुवद्वन्द्वाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीव्रजनवीनयुवद्वन्द्वाष्टकम्
READ
श्रीव्रजनवीनयुवद्वन्द्वाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
