वृन्दावनस्तोत्रम् PDF संस्कृत
Download PDF of Vrrindavanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
वृन्दावनस्तोत्रम् संस्कृत Lyrics
|| वृन्दावनस्तोत्रम् ||
वृन्दाटवी सहजवीतसमस्तदोषा
दोषाकरानपि गुणाकरतां नयन्ती ।
पोषाय मे सकलधर्मबहिष्कृतस्य
शोषाय सुस्तरमहाघचयस्य भूयात् ॥ १॥
वृन्दाटवी बहुभवीयसुपुण्यपुञ्जा
क्षेत्रातिथिर्भवति यस्य महामहिम्नः ।
तस्येश्वरः सकलकर्म मृषा करोति
ब्रह्मादयस्तमतिभक्तियुता नमन्ति ॥ २॥
वृन्दावने सकलपावनपावनेऽस्मिन्
सर्वोत्तमोत्तमचरस्थिरसत्त्वजातौ ।
श्रीराधिकारमणभक्तिरसैककोशे
तोषेण नित्यपरमेण कदा वसामि ॥ ३॥
वृन्दावने स्थिरचराखिलसत्त्ववृन्दा-
नन्दाम्बुधिस्वपनदिव्यमहाप्रभावे ।
भावेन केनचिदिहाऽमृति ये वसन्ति
ते सन्ति सर्वपरवैष्णवलोकभूम्नि ॥ ४॥
इति वृन्दावनस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowवृन्दावनस्तोत्रम्
READ
वृन्दावनस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
