योगाधिपतिश्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Yogadhipatishriganeshastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
योगाधिपतिश्रीगणेशस्तुतिः संस्कृत Lyrics
|| योगाधिपतिश्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
अयोग उवाच ।
शान्तिस्वरूपाय सुशान्तिदाय वाणीमनोहीनतमाय ढुण्ढे ।
वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपते नमस्ते ॥ ३॥
वाणीमनोयुक्तमयं वदामि नो विश्वरूपोऽसि कथं स्तवीमि ।
नित्यं गणेशाय नमो महात्मन् योगाय योगाधिपते नमस्ते ॥ ४॥
वाणीमनोहीनमयं कथं त्वां ब्रुवेऽद्य संयोगमयं कदा च ।
नो योगरूपं त्वथ ते नमो वै योगाय योगाधिपते नमस्ते ॥ ५॥
त्वत्तः प्रसूतानि महानुभाव ब्रह्माणि विश्वानि पराणि भूयः ।
त्वय्येव लीनानि ह्यभिन्नभावाद्योगाय योगाधिपते नमस्ते ॥ ६॥
नित्यं ह्ययोगाय निवृत्तिदाय मायाविहीनाय गणाधिपाय ।
वाणीमनोहीनतया सुलभ्य योगाय योगाधिपते नमस्ते ॥ ७॥
स्वानन्दरूपाय सुशान्तिदाय सिद्ध्या च बुद्ध्या सह खेलकाय ।
वाणीमनोहीन निजात्मलभ्य योगाय योगाधिपते नमस्ते ॥ ८॥
अव्यक्तरूपाय च साहजाय मोहेन हीनाय सदा शिवाय ।
त्रैविध्यनाथाय च नेति कर्त्रे योगाय योगाधिपते नमस्ते ॥ ९॥
सामान्यरूपाय त्रयीमयाय द्वन्द्वप्रकाशाय च विष्णवे ते ।
आनन्दनाथाय सुखेलकाय योगाय योगाधिपते नमस्ते ॥ १०॥
आत्मस्वरूपाय सदाऽमृतस्थयोगेन संलभ्यतमाय भानो ।
भेदैर्विहीनाय च जीवनाय योगाय योगाधिपते नमस्ते ॥ ११॥
नानाप्रभेदेषु च तन्मयाय सर्वस्वरूपाय च शक्तये ते ।
आनन्त्यभावैश्च सुमोहदाय योगाय योगाधिपते नमस्ते ॥ १२॥
साक्षिस्वरूपाय च साङ्ख्ययोगलभ्यस्वरूपाय सदात्मसंस्थ ।
बोधेन हीनाय परात्पराय योगाय योगाधिपते नमस्ते ॥ १३॥
बोधस्वरूपाय सङ्ख्याविहारकर्त्रे सदा पालकभावधारिन् ।
त्रैविध्यनाथाय महोदराय योगाय योगाधिपते नमस्ते ॥ १४॥
सोहंस्वरूपाय च चिन्मयाय मोहेन युक्ताय च हीनकाय ।
देहिस्वरूपेण विहारकर्त्रे योगाय योगाधिपते नमस्ते ॥ १५॥
बिन्दुप्रचुराय चतुष्पदाय चतुर्विधेषु प्रभवाय तुभ्यम् ।
आनन्त्यतत्त्वाय च देहभोक्त्रे योगाय योगाधिपते नमस्ते ॥ १६॥
तुर्यात्मदेहाय लयात्मकाय कालस्वरूपाय गणेश्वराय ।
नादात्मकायाऽथ त्रिदेहगाय योगाय योगाधिपते नमस्ते ॥ १७॥
आनन्दकोशात्मकसंस्थिताय प्राज्ञाय सौषुप्तमयाय तुभ्यम् ।
नित्येश्वरायैव तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ १८॥
सर्वान्तरस्थाय च सूक्ष्मकाय स्वप्नप्रचुराय च तैजसाय ।
हिरण्यगर्भाय तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ १९॥
बाह्यस्थितायान्नमयाय विश्ववैश्वानरायैव तयोः प्रचारिन् ।
स्थूलस्वरूपाय च जागृदास्थ योगाय योगाधिपते नमस्ते ॥ २०॥
विश्वस्यद्वैविध्यमयाय तुभ्यं नानाण्डरूपाय च खेलकाय ।
शक्ते च धात्रे हरये शिवाय योगाय योगाधिपते नमस्ते ॥ २१॥
एते गणेशाधिपते कलांशा विघ्नेश्वरास्ते गणनायकाय ।
न त्वं सदैतैः सहितो हि तुभ्यं योगाय योगाधिपते नमस्ते ॥ २२॥
स्तुमः कथं नाथ गणेशरूपं संयोगहीनं च ह्ययोगहीनम् ।
तादात्म्यरूपं भव तुष्टचित्तं योगाय योगाधिपते नमस्ते ॥ २३॥
मुद्गल उवाच ।
एवं स्तुत्वा गणेशानं प्रणनाम कृताञ्जलिः ।
अयोगस्तं गणाधीशो जगाद घननिःस्वनः ॥ २४॥
(फलशृतिः ।)
गणेश उवाच ।
वरान् वृणु महाभाग मनसीप्सितरूपकान् ।
दास्यामि भक्तितुष्टोऽहं स्तोत्रेणानेन योगप ॥ २५॥
त्वया कृतमिदं स्तोत्रं योगशान्तिपदप्रदम् ।
पठतां शृण्वतां नित्यं नानासिद्धिप्रदं भवेत् ॥ २६॥
यं यमिच्छसि तं तं वै दास्यामि स्तोत्रपाठतः ।
मयि प्रीतिकरं चास्तु भक्तिभावप्रदं तथा ॥ २७॥
एकविंशतिवारं चैकविंशति दिनावधि ।
पठते तस्य सर्वं च दास्यामि दुर्लभं हि चेत् ॥ २८॥
एवमुक्त्वा गणेशानः सस्वजे तं गणाधिपम् ।
अयोगरूपिणं हर्षसंयुक्तं प्रचकार ह ॥ २९॥
ततोऽयोगो गणाध्यक्षं प्रणम्य च पुनः पुनः ।
जगाद भक्तिसंयुक्तो हृष्टरोमा सुहर्षितः ॥ ३०॥
अयोग उवाच ।
यदि ढुण्ढे वरान् मे त्वं दास्यसि भक्तिमोहितः ।
तदा ते पादयुग्मे मे भक्तिं देहि दृढां पराम् ॥ ३१॥
पूर्णयोगस्वरूपस्थं मां कुरुष्व गजानन ।
सुखं मुक्तस्वरूपस्थं नाथ नेच्छामि ते नमः ॥ ३२॥
मुद्गल उवाच ।
अयोगगणराजस्य श्रुत्वा वचनमुत्तमम् ।
जगाद तं गणेशानस्तथेत्यन्तर्हितोऽभवत् ॥ ३३॥
अयोगस्तं हृदि स्थाप्य भजतेऽनन्यमानसः ।
अन्ते योगमयः सोऽपि बभूवे मोक्षनायकः ॥ ३४॥
इति ते सर्वमाख्यातं चरितं श्रीगणपस्य यत् ।
पूर्णयोगधरस्यापि समासेन प्रजापते ॥ ३५॥
अतस्त्वं गणराजं तं भजस्व भक्तिसंयुतः ।
तेन यज्ञमिमं पूर्णं करिष्यसि न संशयः ॥ ३६॥
अन्ते योगयुतश्चैव ब्रह्मभूतो भविष्यसि ।
आज्ञां देहि गमिष्यामि त्वदातिथ्यसुतोषितः ॥ ३७॥
रहस्यं गणनाथस्य कथितं सकलं मया ।
नान्यत् किञ्चिदतो दक्ष परं वेदादिसम्मतम् ॥ ३८॥
शृणुयाद्यः पठेद्वाऽपि स सर्वं प्राप्नुयाच्छुभम् ।
अन्ते योगमयो भूत्वा सन्तिष्ठेत् गणपात्मकः ॥ ३९॥
इति योगाधिपतिश्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowयोगाधिपतिश्रीगणेशस्तुतिः
READ
योगाधिपतिश्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
