श्रीयोगाम्बाष्टकम् PDF संस्कृत
Download PDF of Yogambashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीयोगाम्बाष्टकम् संस्कृत Lyrics
|| श्रीयोगाम्बाष्टकम् ||
उद्यद्भानुसहस्रकोटिविलसद्देहप्रभोद्भासितां
मुक्ताहारविभूषितामगसुतां कौसुम्भवस्त्रान्विताम् ।
हस्तस्थाक्षसुपुस्तकाभयवरां चन्द्रार्धचूडां शिवां
श्रीमदुकुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ १॥
सम्फुल्लत्कमलाननां करधृताम्भोजाभयाभीष्टदां
पार्श्वस्थद्विरदेन्द्रवत्ससहितामाकर्णपूर्णेक्षणाम् ।
कुम्भाकारकुचातिभारनमितश्रीमध्यभागां शिवां
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ २॥
तप्तस्वर्णतनुप्रभां दरहसां कल्हारमध्यस्थितां
काञ्चीनूपुरकङ्कणाङ्गदलसद्ग्रैवेयहारोज्ज्वलाम् ।
शुण्डादण्डसमानहस्तचतुरां चन्द्रार्धचूडां शिवां
श्रीमद्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ३॥
दीप्यत्कोमलसत्प्रवाललतिकां चित्रप्रभाभासुरां
मत्तेपापृथुकुम्भसत्कुचनतां पूर्णेन्दुबिम्बाननाम् ।
हस्तैश्शूलकपालकार्मुककशान् सम्बिभ्रतीं त्रीक्षणां
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ४॥
रक्ताङ्गीं मृगनाभिबिन्दुविलसद्बालेन्दुफालां परां
शोणासृग्वसनां पयोधरनतां काश्मीरपङ्काञ्जिताम् ।
हस्तस्थाशुगकार्मुकाङ्कुशकशान् सम्बिभ्रतीं श्रीमतीं
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ५॥
नानारत्नसुवर्णभूषणगणैराढ्यां सुकौशेयिनीं
वक्षोजस्तबकादिचञ्चललतागात्रीं त्रिनेत्रां पराम् ।
हस्तैरिक्षुधनुस्सुमाशुगकशान् सम्बिभ्रतीं शङ्करीं
श्रीमत्कुन्दवनालयमनुदिनं ध्यायामि योगाम्बिकाम् ॥ ६॥
दुग्धाम्भोनिधिमध्यमे सुरतरोर्व्यूहावृते मन्दिरे
चिन्तारत्नमयेऽब्जसम्भवमुखैस्संसेव्यमानेऽमरैः ।
पञ्चब्रह्ममयेऽतुलेऽतिरुचिरे मञ्चे सुखाध्यासिनीं
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ७॥
त्वं माता जनकः शिवो मम गुरुर्दैवं सुहृत्सद्धनं
सर्वेषामपि जीवनं तनुभृतां सर्वैर्मुनीन्द्रैर्भृशम् ।
सन्ध्येयं शरणं भवाब्धिपदतामन्तर्बहिर्व्यापिनीं
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ८॥
मर्त्यो यः पठति स्तवं सुफलदं रौक्षायणार्षीरितं
जिह्वाग्रे निवसेद्धिताय मुदिता ब्राह्मीन्दिरा मन्दिरे ।
शर्वाणी हृदयाम्बुजे नृपतयो दासा महीमण्डले
सर्वार्थाननुभूय सर्वमहितं प्रायात् पदं शाङ्करम् ॥ ९॥
इति रौक्षायणकृतं श्रीयोगाम्बाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीयोगाम्बाष्टकम्
READ
श्रीयोगाम्बाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
