योगिनीनायिकाकवचम् PDF संस्कृत
Download PDF of Yogininayikakavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
योगिनीनायिकाकवचम् संस्कृत Lyrics
|| योगिनीनायिकाकवचम् ||
उन्मत्तभैरव उवाच
शृणु कल्याणि मद्वाक्यं कवचं देवदुर्लभम् ।
यक्षिणीनायिकानान्तु संक्षेपात्सिद्धिदायकम् ॥ १॥
ज्ञानमात्रेण देवेशि सिद्धिमाप्नोति निश्चितम् ।
यक्षिणी स्वयमायाति कवचज्ञानमात्रतः ॥ २॥
सर्वत्र दुर्लभं देवि! डामरेषु प्रकाशितम् ।
पठनाद्धारणान्मर्त्यो यक्षिणी वशमानयेत् ॥ ३॥
कवचस्य ऋषिर्गर्गो गायत्रीच्छन्द ईरितम् ।
देवता यक्षिणी देवी सर्वसिद्धिप्रदायिनी ॥ ४॥
साक्षात्सिद्धिसमृद्ध्यर्थे विनियोगः प्रकीर्तितः ।
ॐ शिरो मे यक्षिणी पातु ललाटं यक्षकन्यका ॥ ५॥
मुखं श्रीधनदा पातु कर्णौ मे कुलनायिका ।
चक्षुषी वरदा पातु नासिका भक्तवत्सला ॥ ६॥
केशाग्रं पिङ्गला पातु धनदा श्रीमहेश्वरी ।
स्कन्धौ कुलालया पातु गलं मे कमलानना ॥ ७॥
किरातिनी सदा पातु भुजयुग्मं जटेश्वरी ।
विकृतास्या सदा पातु महावक्रप्रिया मम ॥ ८॥
अस्त्रं हस्ता पातु नित्यं पृष्ठमुदरदेशकम् ।
मेरुण्डा माकरी देवी हृदयं देवसम्मता ॥ ९॥
अलङ्कारान्विता पातु मे नितम्बस्थलं दया ।
धार्मिका गुह्यदेशं मे पादयुग्मं सुराङ्गना ॥ १०॥
शून्यागारे सदा पातु मन्त्रमातास्वरूपिणी ।
निष्कलङ्का सदा पातु चाम्बुवत्यखिलां तनुम् ॥ ११॥
प्रान्तरे धनदा पातु निजबीजप्रकाशिनी ।
लक्ष्मीबीजात्मिका पातु निजबीजप्रकाशिनी ॥ १२॥
लक्ष्मीबीजात्मिका पातु खड्गहस्ता श्मशानके ।
शून्यागारे । नदीतीरे महायक्षेशकन्यका ॥ १३॥
पातु मां वरदाख्या मे सर्वाङ्गं पातु मोहिनी ।
महासङ्कटमध्ये तु सङ्ग्रामे रिपुसञ्चये ॥ १४॥
क्रोधरूपा सदा पातु महादेवनिषेविका ।
सर्वत्र सर्वदा पातु भवानी कुलदायिका ॥ १५॥
ॐ इत्येतकवचं देवि महामन्त्रौघविग्रहम् ।
अस्यापि स्मरणादेव राजत्वं लभतेऽचिरात् ॥ १६॥
पञ्चवर्षसहस्राणि स्थिरो भवति भूतले ।
वेदज्ञानी सर्वशास्त्रवेत्ता भवति निश्चितम् ॥ १७॥
अरण्ये सिद्धिमाप्नोति महाकवचपाठतः ।
यक्षिणी कुलविद्या च समायाति सुसिद्धिदा ॥ १८॥
अणिमा लघिमा प्राप्तिः सुखसिद्धिफलं लभेत् ।
पठित्वा धारयित्वा च निर्जनेऽरण्यमस्तके ।
स्थित्वा जपेल्लक्षमन्त्रमिष्टसिद्धिं लभेन्निशि ॥ १९॥
भार्या भवति सा देवी महाकवचपाठतः ।
योगिनां दुर्लभं देवि किमन्यत् साधनादिकम् ।
ग्रहणादेव सिद्धिः स्यान्नात्र कार्या विचारणा ॥ २०॥
इति बृहद्भूतसन्धानडामरे महातन्त्रे योगिनीनायिकाकवचं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowयोगिनीनायिकाकवचम्
READ
योगिनीनायिकाकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
