श्री युगलकिशोराष्टकम् PDF संस्कृत
Download PDF of Yugalkishor Ashtakam Sanskrit
Shri Radha ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री युगलकिशोराष्टकम् संस्कृत Lyrics
|| श्रीयुगलकिशोराष्टकम् ||
श्रीमद्रूपगोस्वामिविरचितम् ।
नवजलधरविद्युद्योतवर्णौ प्रसन्नौ
वदननयनपद्मौ चारुचन्द्रावतंसौ ।
अलकतिलकफालौ केशवेशप्रफुल्लौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥
वसनहरितनीलौ चन्दनालेपनाङ्गौ
मणिमरकतदीप्तौ स्वर्णमालाप्रयुक्तौ ।
कनकवलयहस्तौ रासनाट्यप्रसक्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥
अतिमतिहरवेशौ रङ्गभङ्गीत्रिभङ्गौ
मधुरमृदुलहास्यौ कुण्डलाकीर्णकर्णौ ।
नटवरवररम्यौ नृत्यगीतानुरक्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥
विविधगुणविदग्धौ वन्दनीयौ सुवेशौ
मणिमयमकराद्यैः शोभिताङ्गौ स्फुरन्तौ ।
स्मितनमितकटाक्षौ धर्मकर्मप्रदत्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥
कनकमुकुटचूडौ पुष्पितोद्भूषिताङ्गौ
सकलवननिविष्टौ सुन्दरानन्दपुञ्जौ ।
चरणकमलदिव्यौ देवदेवादिसेव्यौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥
अतिसुवलितगात्रौ गन्धमाल्यैर्विराजौ
कति कति रमणीनां सेव्यमानौ सुवेशौ ।
मुनिसुरगणभाव्यौ वेदशास्त्रादिविज्ञौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥
अतिसुमधुरमूर्तौ दुष्टदर्पप्रशान्तौ
सुखरसवरदौ द्वौ सर्वसिद्धिप्रदानौ ।
अतिरसवशमग्नौ गीतवाद्यैर्वितानौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥
अगमनिगमसारौ सृष्टिसंहारकारौ
वयसि नवकिशोरौ नित्यवृन्दावनस्थौ ।
शमनभयविनाशौ पापिनस्तारयन्तौ
भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥
इदं मनोहरं स्तोत्रं श्रद्धया यः पठेन्नरः ।
राधिकाकृष्णचन्द्रौ च सिद्धिदौ नात्र संशयः ॥
इति श्रीमद्रूपगोस्वामिविरचितं श्रीयुगलकिशोराष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री युगलकिशोराष्टकम्

READ
श्री युगलकिशोराष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
