|| सुपर्ण स्तोत्रम् ||
देवा ऊचुः ।
त्वं ऋषिस्त्वं महाभागः त्वं देवः पतगेश्वरः ।
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः ॥ १ ॥
त्वमिन्द्रस्त्वं हयमुखः त्वं शर्वस्त्वं जगत्पतिः ।
त्वं मुखं पद्मजो विप्रः त्वमग्निः पवनस्तथा ॥ २ ॥
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः ।
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः ॥ ३ ॥
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् ।
त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम् ॥ ४ ॥
बलोर्मिमान् साधुरदीनसत्त्वः
समृद्धिमान् दुर्विषहस्त्वमेव ।
त्वत्तः सृतं सर्वमहीनकीर्ते
ह्यनागतं चोपगतं च सर्वम् ॥ ५ ॥
त्वमुत्तमः सर्वमिदं चराचरं
गभस्तिभिर्भानुरिवावभाससे ।
समाक्षिपन् भानुमतः प्रभां मुहुः
त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥ ६ ॥
दिवाकरः परिकुपितो यथा दहेत्
प्रजास्तथा दहसि हुताशनप्रभ ।
भयङ्करः प्रलय इवाग्निरुत्थितो
विनाशयन् युगपरिवर्तनान्तकृत् ॥ ७ ॥
खगेश्वरं शरणमुपागता वयं
महौजसं ज्वलनसमानवर्चसम् ।
तडित्प्रभं वितिमिरमभ्रगोचरं
महाबलं गरुडमुप्येत खेचरम् ॥ ८ ॥
परावरं वरदमजय्यविक्रमं
तवौजसा सर्वमिदं प्रतापितम् ।
जगत्प्रभो तप्तसुवर्णवर्चसा
त्वं पाहि सर्वांश्च सुरान् महात्मनः ॥ ९ ॥
भयान्विता नभसि विमानगामिनो
विमानिता विपथगतिं प्रयान्ति ते ।
ऋषेः सुतस्त्वमसि दयावतः प्रभो
महात्मनः खगवर कश्यपस्य ह ॥ १० ॥
स मा क्रुधः जगतो दयां परां
त्वमीश्वरः प्रशममुपैहि पाहि नः ।
महाशनिस्फुरित समस्वनेन ते
दिशोम्बरं त्रिदिवमियं च मेदिनी ॥ ११ ॥
चलन्ति नः खग हृदयानि चानिशं
निगृह्य तां वपुरिदमग्निसन्निभम् ।
तव द्युतिं कुपितकृतान्तसन्निभां
निशम्य नश्चलति मनोव्यवस्थितम् ॥ १२ ॥
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा ।
तेजसः प्रतिसंहारमात्मनः स चकार ह ॥ १३ ॥
इति श्रीमन्महाभारते आदिपर्वणि सुपर्णस्तोत्रम् सम्पूर्णम् ।
Found a Mistake or Error? Report it Now