Misc

जीवन्मुक्तानन्दलहरी

Jivanmuktanandalahari Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| जीवन्मुक्तानन्दलहरी ||

पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान्
सुवेषान्स्वर्णालङ्करणकलितांश्चित्रसदृशान् ।
स्वयं साक्षाद्द्रष्टेत्यपि च कलयंस्तैः सह रमन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १॥

वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखान्
घनच्छायाच्छन्नान्बहुलकलकूजद्द्विजगणान् ।
भजन्घस्रेरात्राववनितलकल्पैकशयनो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २॥

कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनां
कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।
कुटीरे दान्तानां मुनिजनवराणामपि वसन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ३॥

क्वचिद्बालैः सार्धं करतलजतालैः सहसितैः
क्वचित्तारुण्यालङ्कृतनरवधूभिः सह रमन् ।
क्वचिद्वृद्धैश्चिन्ताकुलित हृदयैश्चापि विलपन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ४॥

कदाचिद्विद्वद्भिर्विविदिषुभिरत्यन्तनिरतैः
कदाचित्काव्यालङ्कृतिरसरसालैः कविवरैः ।
कदाचित्सत्तर्कैरनुमितिपरैस्तार्किकवरै-
र्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ५॥

कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः
सुगन्धैः सत्पुष्पैः क्वचिदपि दलैरेव विमलैः ।
प्रकुर्वन्देवस्य प्रमुदितमनाः सन्नतिपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ६॥

शिवायाः शम्भोर्वा क्वचिदपि च विष्णोरपि कदा
गणाध्यक्षस्यापि प्रकटितवरस्यापि च कदा ।
पठन्वै नामालिं नयनरचितानन्दसलिलो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ७॥

कदा गङ्गाम्भोभिः क्वचिदपि च कूपोत्थसलिलैः
क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।
भजन्स्नानं भूत्या क्वचिदपि च कर्पूरनिभया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ८॥

कदाचिज्जागर्त्यां विषयकरणैः संव्यवहरन्
कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् ।
कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ९॥

कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः
क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।
मनस्वी निःसङ्गः सुजनहृदयानन्दजनको
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १०॥

कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तिसुगत-
स्तमोवृत्तिः क्वापि त्रितयरहितः क्वापि च पुनः ।
कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ११॥

कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः
कदाचित्स्वानन्दं हसितरभसस्त्यक्तवचनः ।
कदाचिल्लोकानां व्यवहृतिसमालोकनपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२॥

कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलं
क्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।
तदद्वैतं रूपं निजपरविहीनं प्रकटयन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १३॥

क्वचिच्छैवैः सार्थं क्वचिदपि च शाक्तैः सह वसन्
कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।
कदा गाणापत्यैर्गतसकलभेदोऽद्वयतया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १४॥

निराकारं क्वापि क्वचिदपि च साकारममलं
निजं शैव रूपं विविधगुणभेदेन बहुधा ।
कदाश्चर्यं पश्यन्किमिदमिति हृष्यन्नपि कदा
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १५॥

कदाऽद्वैतं पश्यन्नखिलमपि सत्यं शिवमयं
महावाक्यार्थानामवगतिसमभ्यासवशतः ।
गतद्वैताभासः शिव शिव शिवेत्येव विलपन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १६॥

इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा-
सुधापाङ्गाव्याप्यां सहजसुखव्याप्यामनुदिनम् ।
मुहुर्मज्जन्मज्जन्भजति सुकृतैश्चेन्नरवरः
तदा त्यागी योगी कविरिति वदन्तीह कवयः ॥ १७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
जीवन्मुक्तानन्दलहरी सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download जीवन्मुक्तानन्दलहरी PDF

जीवन्मुक्तानन्दलहरी PDF

Leave a Comment

Join WhatsApp Channel Download App