|| श्रीराघवेन्द्रकरुणालहरी ||
त्वङ्गत्तुङ्ग-तरङ्ग-मङ्गल-नदी-तुङ्गान्तरङ्ग-स्थली-
रङ्गोत्सङ्ग-निषङ्गि-वात-विधुताम्भः प्लाविते पाविते ।
श्रीमन्त्रालय-नाम्नि धाम्नि वसते चाशंसते शं सते
मन्त्रालोचनमार्ति-नाशन-कृते पुंसां नमस्तन्वते ॥ १॥
नो मञ्चा न गृहा न चञ्चल-दृशो द्रव्यं श्रमात्सञ्चितं
चञ्चत् किञ्चन किञ्च काञ्चनमपि त्वां चानुयान्त्यत्यये ।
सञ्चित्यैवमिदं च मुञ्च सकलं प्रापञ्चिकं नश्वरं
मञ्चाली-गुरुमञ्च शाश्वत-सुखं त्वं चेत्सखे वाञ्छसि ॥ २॥
इष्टार्थाकलनान्नृणामिह तथा कष्टावलेर्वारणात्
कुष्ठापस्मृति-पूर्व-भीकर-रुजा-दुष्ट-ग्रहोत्सारणात् ।
प्रेष्ठो भक्तततेस्तथा भगवतः प्रेष्ठश्च वायोर्हरेः
श्रेष्ठः संयमिनां कृषीष्ट करुणां श्रीराघवेन्द्रो गुरुः ॥ ३॥
यद्वृन्दावन-सम्प्रदक्षिण-नमस्याराऽर्चनाऽराधनैः
पङ्गुस्तुङ्ग-गिरीन्द्र-शृङ्गमपि चोल्लङ्घेत जङ्घालकः ।
मूकः स्यान्मधु-पाक-कल्प-कविता-वाको विवेकोदयाद्
जल्पाकस्तमहं भजामि गुरुराट् श्रीराघवेन्द्रं मुनिम् ॥ ४॥
यस्यान्तःकरणं प्रपूर्य करुणोद्रिक्ता हि रिक्तं करा-
लङ्कारं च कमण्डलुं कलयते पूर्णं सदार्णो-मिषात् ।
शाट्यां हृद्यमितोदितः प्रतटितो लोकानुरागः परः
कारुण्याब्धिमगण्य-पुण्य-लसितं यत्यग्रगण्यं स्तुमः ॥ ५॥
स्वर्ण-श्री-मृगतृष्णिकाऽकुलतया स्वान्तं न तान्तं मनाक्
कान्ता-कामनया कदाचिदपि न भ्रान्तं च कान्तारके ।
वै देही न च काऽपि कोऽपि भवता दूरीकृताऽनादृतोऽ
थापि त्वं ननु राघवेन्द्र-पद-भाक् कस्मान्न विस्मीयते ॥ ६॥
मुख्यप्राण-निविष्ट-चेतनतया रामानुरागेण च
कान्त्या भासुर-लक्ष्मणान्विततया स्नेहात् सुमित्रादरात् ।
भास्वद्-भारत-भाग्य-वर्धनकृते सर्वस्व-दानदपि
स्वामिंस्ते खलु “राघवेन्द्र” इति-यन्नामैतदन्वर्थकम् ॥ ७॥
स्थीते चूत-रसे प्रमाद-पतितः पोतः परेतः कृपा-
दृक्पातेन तदाति-शीतलहृदो जातः पुनर्जीवितः ।
संसारे विषयाख्य-कश्मल-रसे पन्नोऽवसन्नोऽस्म्यहं
किं नोत्थापयसे गुरो तव पुरः-खिन्नं विषण्णं च माम् ॥ ८॥
अर्थि-प्रार्थितदापि दिव्यसुरभिर्नूनं-पशुत्वाञ्चिता
सोऽयं कल्प-महीतुहोऽपि जडतापन्नो हि मान्यो दिवि ।
हन्ताश्मैव स चिन्तितेष्ट-फलदश्चिन्ता-मणिश्चान्ततः
तत्येनोपमिनोमि तं गुरुमतो खिन्नाऽवसन्न च वाक् ॥ ९॥
यत्पादाम्बुज-सेवनात्सुतवती वन्ध्याऽभिनन्द्या भवेत्
काणः क्षीण-सुदृक् क्षणान्नलिन-दृक् चक्षुष्मतामग्रणीः ।
कौबेरीं श्रियमाप्नुयादपि दरिद्रणो जुषाणोंऽजलिं
हीनोऽहीन-शयान-देव-शरणंश श्रीराघवेन्द्रं स्तुमः ॥ १०॥
यन्नाम-स्मरणं त्रिताप-हरणं सौख्यावलेः कारणं
यस्याङ्घ्र्योर्नमनं विपत्प्रशमनं ध्यानं निदानं मुदाम् ।
यत्पादाश्रयणं श्रियो वितनुते शश्वच्च विश्राणनं
यद्वृन्दावन-दर्शनं भट गुरुं सर्वापदां कर्शनम् ॥ ११॥
वेङ्कण्णस्य निरक्षरस्य च गवां पालस्य लोलद्वटोः
न्यस्ते हस्त-तलेऽस्य मस्तक -तटे ध्वस्तास्समस्तापदः ।
काले स्फूर्ति-वेशेषतः समभवद् ज्ञानोदयस्तत्षणात्
यस्योद्यद्दयया श्रियस्समुदयो भाग्योदयस्तं भजे ॥ १२॥
नो सन्ध्याचरणं, जपादि-करणं, नो नाम्न उच्चारणं
क्षेत्रे सञ्चरणं, पुरश्चरणतोनाकार्ष्मविष्णुस्तवम् ।
तन्नोऽद्योद्धरणं कथं न्विति गुरो सर्वापदुत्तारणं
यातास्ते चरणं भियाद्य शरणं मा नः कृथा वारणम् ॥ १३॥
स्वामिन् नैक-जनुस्समर्जित-महा-पापावली सर्वता-
कारा भीरुममुञ्च भीषयति मां का भीर्वदाभीक ते ।
हैमन्तं हि हिमं प्रकम्पयतु वा कामं तु भौमं जनं
कच्चिच्चण्डरुचो नु गण्डमधरं शैत्येन किं खण्डयेत् ॥ १४॥
व्याख्या येन कृता सुधा-परिमळाभिख्या हि सङ्ख्यावता
श्रीमन् न्यायसुधाकृतेः परिमळव्याख्याचयन्निर्मिता ।
मध्वव्यासजयार्य भावमणिसन्मञ्जूषिकोद्घातिनी
मान्या माध्व गुरोर्जयाभिधमुनेः पूर्णाशयोद्भास्सिनी ।
व्यासार्यस्य हि चन्द्रिका च खलु यद् व्याख्यानतः ख्यातिभाक्
विद्वत्प्रख्य यति प्रमुख्य गुरुराट् नः सौख्यदोस्त्वन्वहम् ॥ १५॥
प्रत्यूह व्यूह तुङ्ग क्षितिधर दलनात्युग्रदम्भोलि लीला-
रम्भोज्जृम्भत्-कटाक्षेक्षण-जनित-जगत्षेम भूमाभिरामम् ।
श्रीमद्रामाङ्घ्रि-भक्तेतर-विषय-विरक्तीश-सुज्ञान-पुष्प-
स्तोमाऽसामायितान्तःकरण-गुरुममुं चैमि भक्त्यारणं तम् ॥ १६॥
विद्वच्चको रोत्सव-कारि-चन्द्रं
कर्मन्दि-वृन्दारक-वन्दितेन्द्रम् ।
निर्दोष-रन्ध्रं सु-गुणैक-सान्द्रं
श्री-राघवेन्द्रं प्रणमाम्यतन्द्रम् ॥ १७॥
देवासां निवहे निरीक्ष्य हि मया सम्यत् परीक्ष्याऽश्रितो
भक्त्या किं च वृतस्तुतोऽर्चित-नुतः श्री-राघवेन्द्रो हरिः ।
पश्चाच्छ्रीगुरु-मण्डलेऽपि च बहु-श्रान्त्या विचिन्त्याऽसकृत्
माध्वाध्वर्य-धुरोद्धरो यति-पतिः श्रीराघवेन्द्रो वृतः ॥ १८॥
नियतेन्द्रिय-चेतस्याद् नियताद् भवतो गुरोः ।
न यतेऽन्ययतेर्गन्तुं नयतो मुक्तिमाश्रयम् ॥ १९॥
गुरुणां च तरूणां च न सङ्ख्या भूतले परम् ।
गुरुत्वं स्वस्तरुत्वं च मिलित्वेक्यं गतं त्वयि ॥ २०॥
आशां वैषयिकीं व्युदस्य वनिता-भू-स्नेह-पाशान् गुरू-
राशा-व्याप्त-यशाः शशीव-च-वशी श्रीशार्चनैक-व्रतः ।
कीशोर्वीश-यतीश-रूप-मरुतो दासोऽहमेवं वदन्
आशीर्भिः शमयेन्ममेषण-गणाख्याऽशीविषोत्वेषणम् ॥ २१॥
लोके पावन-गुर्वनुग्रह-बलाद् भू-पावनं जीवनं
श्री-व्यासार्य-जयार्य-वादि-गुरुराजानाञ्जगत्यांश्रुतम् ।
तेषामन्तिकमेव गन्तु मधुना स्वान्तं नितान्तं भय-
भ्रान्तं तद् गुरु-राघवेन्द्र-करुणाऽकोपारमेवाश्रये ॥ २२॥
प्रागाचीर्णमचीर्ण-शीर्ण-दुरितं तूर्णं हि यत् चूर्ण्येत्
काम-क्रोध-मदादि-पावक-खर-ज्वालाश्च यच्छामयेत्
चेतो-लग्न-कु-वासना-पटमपि छिन्नं विदध्यात्पुनः
प्राश्मीहि प्रिय-राघवेन्द्र-यमिनां पादोदकं पावनम् ॥ २३॥
यत्पादोदक-सेवनात् कलियुगे सर्वावनात् पावनाद्
रोगा भोग भयानकाः क्व नु गता वेगान्न तल्पक्ष्यते ।
व्यर्थं वैद्यक-शास्त्रमेतदोभयं पाश्चात्य-पौरस्त्यकं
सोऽयं श्रीगुरु-राघवेन्द्र-यतिराट् पायादपायात्सदा ॥ २४॥
नष्ट-प्रायमपीह दुष्ट-कलिनैवास्तिक्य मुज्जीवयन्
नास्तिक्यं तिरयंश्च दैवत-गुरु-द्वेषं च निश्येषयन् ।
शुष्यं पुष्कल-हूण-तुष्कर-मतैः सम्पर्कतो भक्तिसत्-
केदारं कृति-सद्रसैः किसलयन् यच्छेद् गुरुः सत्फलम् ॥ २५॥
लोकानां फलकेऽलिके सतिलके येनाथवा मस्तके
कस्तूरी-सदृशि प्रभाति च सति ध्वस्तास्समस्तापदः ।
भीताः किं च समीपमेव यमराड् दूता न चे युर्गुरोः
पत्यञ्जोदित-पाप-भञ्जक-रजः-किञ्जल्क-पुञ्जः श्रियै ॥ २६॥
यस्यानुग्रह लेशतोऽत्र भुवनेऽसाध्यं न वै विद्यते
व्यङ्गः पङ्गुरलं विलङ्घितुमपि स्यात्तुङ्ग शैलं पटुः ।
जल्पाको रस पाक वाञ्मुखरितो मूकोऽपि लोके कविः
तं श्रीमद् गुरुराघवेन्द्र यमिनं वन्दे नरं दैवतम् ॥ २७॥
तापं लोकपते, शुचं क्षमयते, पापं हरत्याशु या
द्राग् दौरीकुरुते च दुर्मतिमथो तन्द्रां करोति द्रुताम् ।
क्षेशं नाशयतेऽलिकेऽन्यथयते दुर्वर्णमालां विधेः
गु-र्वङ्घ्र्य-यम्बुज मृत्तिका मम शिरः भे कृत्तिका स्यात्सदा ॥ २८॥
भालाभ्ये फलके नृणां तनुतरे मस्ते प्रशस्तेऽथमा
यत्सन्धारणतः पलायन-परा भूताः प्रभूता आपि ।
भीता दूरत एव दुग्रह-गणा भाधा भिया धाविता
भूयासुर्मम भूयसे गुरुपद-श्रीपांसवः श्रेयसे ॥ २९॥
विपन्नं विषण्णं प्रपन्नं प्रसन्नो
रुदन्तं वदन्तं विदन्तं न किञ्चित् ।
लठन्तं शठं तं स्छुटं ते पदान्ते
धराऽशूद्धराऽमुं हराऽघं गुरो मे ॥ ३०॥
आनर्थान्निहन्तुं पुमर्थान् प्रदातुं
न यन्त्राणि मन्त्रा न तन्त्रं स्वतन्त्रम् ।
न तीर्थादि-सर्थं समर्थं तदर्थे
तीर्थं यथार्थं गुरो प्रार्थये त्वाम् ॥ ३१॥
नृणामनल्प-सङ्कल्पगोचरार्थ-प्रदानतः ।
कल्पद्रु-कल्पान् वन्देऽहं राघवेन्द्र-गुरूत्तमान् ॥ ३२॥
व्यङ्गा व्याधि-हताः क्षीणाः यस्यापाङ्गावलोकनात् ।
मङ्गलान्याप्नुवन्तीडे तुङ्गा-तीरग-योगिनम् ॥ ३३॥
श्रीराघवेन्द्र-करुणा-तरणिर्भवाब्धौ
श्रीराघवेन्द्र-चरणं शरणं सदा मे ।
श्रीराघवेन्द्र-गुरुणैव सनाथितोऽहं
श्रीराघवेन्द्र-चरणाभरणं शिरो मे ॥ ३४॥
न राघवं गन्तु मघाद्रिरीशे
न लाघवादिन्द्रमुपै तुमीस्से ।
तद्राघवेन्द्राङ्घ्रि-युगाप्त्युपायं
श्रीराघवेन्द्रं गुरुमाश्रितोऽहम् ॥ ३५॥
इति महामहोपाध्याय पं. पण्ढरिनाथाचर्य गलगलि विरचिता
श्रीराघवेन्द्रकरुणालहरि एम्ब आखण्ड काव्य समाप्ता ।
- sanskritश्रीरामसौन्दर्यलहरी
- sanskritश्री राम पञ्च रत्न स्तोत्रम
- sanskritअष्टाक्षर श्रीराम मन्त्र स्तोत्रम
- sanskritश्री राम भुजङ्ग प्रयात स्तोत्रम्
- sanskritजटायु कृत श्री राम स्तोत्र
- hindiश्री राम रक्षा स्तोत्रम्
- malayalamരാമ പഞ്ചരത്ന സ്തോത്രം
- teluguరామ పంచరత్న స్తోత్రం
- tamilஇராம பஞ்சரத்ன ஸ்தோத்திரம்
- kannadaರಾಮ ಪಂಚರತ್ನ ಸ್ತೋತ್ರ
- hindiराम पंचरत्न स्तोत्र
- malayalamഭാഗ്യ വിധായക രാമ സ്തോത്രം
- teluguభాగ్య విధాయక రామ స్తోత్రం
- tamilபாக்கிய விதாயக ராம ஸ்தோத்திரம்
- kannadaಭಾಗ್ಯ ವಿಧಾಯಕ ರಾಮ ಸ್ತೋತ್ರ
Found a Mistake or Error? Report it Now