|| वेंकटेश भुजंगम ||
मुखे चारुहासं करे शङ्खचक्रं
गले रत्नमालां स्वयं मेघवर्णम् ।
तथा दिव्यशस्त्रं प्रियं पीतवस्त्रं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ १॥
सदाभीतिहस्तं मुदाजानुपाणिं
लसन्मेखलं रत्नशोभाप्रकाशम् ।
जगत्पादपद्मं महत्पद्मनाभं धरन्तं
मुरारिं भजे वेङ्कटेशम् ॥ २॥
अहो निर्मलं नित्यमाकाशरूपं
जगत्कारणं सर्ववेदान्तवेद्यम् ।
विभुं तापसं सच्चिदानन्दरूपं धरन्तं
मुरारिं भजे वेङ्कटेशम् ॥ ३॥
श्रिया विष्टितं वामपक्षप्रकाशं
सुरैर्वन्दितं ब्रह्मरुद्रस्तुतं तम् ।
शिवं शङ्करं स्वस्तिनिर्वाणरूपं धरन्तं
मुरारिं भजे वेङ्कटेशम् ॥ ४॥
महायोगसाद्ध्यं परिभ्राजमानं चिरं
विश्वरूपं सुरेशं महेशम् ।
अहो शान्तरूपं सदाध्यानगम्यं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ५॥
अहो मत्स्यरूपं तथा कूर्मरूपं
महाक्रोडरूपं तथा नारसिंहम् ।
भजे कुब्जरूपं विभुं जामदग्न्यं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ६॥
अहो बुद्धरूपं तथा कल्किरूपं
प्रभुं शाश्वतं लोकरक्षामहन्तम् ।
पृथक्काललब्धात्मलीलावतारं धरन्तं
मुरारिं भजे वेङ्कटेशम् ॥ ७॥
इति श्रीवेङ्कटेशभुजङ्गं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now