Durga Ji

नवदुर्गास्तुतिः

Navadurgastutih2 Sanskrit

Durga Ji ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नवदुर्गास्तुतिः ||

शैले वसन्ती परमेश्वरस्य प्रिया शिवानी गिरिराजपुत्री ।
विद्या प्रशस्ता जगदम्बिका सा चाद्या नमस्ते खलु शैलपुत्री ॥ १॥

शङ्खेन्दुकुन्दसङ्काशां कमण्डलुधरां शिवाम् ।
चाक्षमालाधरां वन्दे ब्रह्मचारिणीमातरम् ॥ २॥

तप्तकाञ्चनवर्णाभां पूर्णचन्द्राननत्रयाम् ।
चन्द्रघण्टामहं वन्दे क्रूरदृष्टिसमन्विताम् ॥ ३॥

सुराकुम्भधरां रौद्रीमष्टबाहुसमन्विताम् ।
हरसिद्धामहं वन्दे शत्रुसंहारकारिणीम् ॥ ४॥

पद्मपुष्पधरां गौरीं महासिंहोपरिस्थिताम् ।
स्वाङ्के स्कन्दधरां वन्दे शर्वाणीं स्कन्दमातरम् ॥ ५॥

कात्यायनीमहादेवीं शार्दूलोपरिसंस्थिताम् ।
महाखड्गधरां वन्दे चारुनेत्रत्रयान्विताम् ॥ ६॥

कृष्णां दिगम्बरीं वन्दे गर्दभोपरिसंस्थिताम् ।
चतुर्भुजां त्रिनेत्रां च कालरात्रीं भयङ्करीम् ॥ ७॥

वृषारूढां महागौरीं त्रिशूलाभयधारिणीम् ।
कटाक्षविशिखोपेतां वन्दे कल्याणकारिणीम् ॥ ८॥

सिद्धिदात्रीं त्रिनेत्रां च पद्मस्थां किरीटोज्ज्वलाम् ।
शङ्खचक्रगदापद्मधरां वन्दे यशस्विनीम् ॥ ९॥

इति नन्दप्रदीप्तकुमारविरचिता नवदुर्गास्तुतिः समाप्ता ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download नवदुर्गास्तुतिः PDF

नवदुर्गास्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App