|| सारस्वताष्टकम् ||
शीतला शीतला शान्ता शर्मदा शीलभूषणा ।
शोभिता शतपद्मेन शरण्यानां शिवङ्करी ॥ १॥
लवणिम-समायुक्ता सद्गुणवरदायिनी ।
पद्मस्थिता करेपद्या “पद्मा” प्रज्ञां प्रयच्छतु ॥ २॥
वरदा विमला वन्द्या लोकत्रयहितैषिणी ।
सुरेन्द्रैर्या सदा स्तुत्या “प्रीतिः” प्रेक्षां प्रयच्छतु ॥ ३॥
तीर्थकरमुखाब्जे या संवसिता समुज्ज्वला ।
अज्ञानतमसो हन्त्री “शीला” मतिं प्रयच्छतु ॥ ४॥
शान्तिशातस्य दात्री या दुरितवृन्द-नाशिनी ।
सौम्यमुखारविन्दा मे “शमा” ज्ञानं प्रयच्छतु ॥ ५॥
रम्य रमा-प्रसादेन जडा भवन्ति पण्डिताः ।
हंसयाने समारूढा “गूढा” ज्ञप्तिं प्रयच्छतु ॥ ६॥
दासित्री प्रतिभाबुद्ध्योर्वीणापुस्तक-धारिणी ।
बिभ्रती मालिकां हस्ते “सीमा” मेधां प्रयच्छतु ॥ ७॥
राजेन्द्रसुरिसच्शिष्याः पन्न्यासराजपद्मकाः ।
सुविनेयाय तेषां हि “भद्रा” दद्याद् वरं कदा ? ॥ ८॥
इति मुनिराजधर्मविजयविरचितं सारस्वताष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now

