Misc

अमरेश्वरस्तोत्रम्

Amareshvarastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अमरेश्वरस्तोत्रम् ||

कृष्णावेणीतटावास तृष्णाहृत्तुष्टमानस ।
त्रासहारिमहावीर त्राहि माममरेश्वर ॥ १॥

आन्ध्रदेशकृतावास चान्तरस्थमहारस ।
दुःखान्महाशक्तिधर त्राहि माममरेश्वर ॥ २॥

श्रीधान्यवाटिकाक्षेत्ररञ्जनानर्थभञ्जन ।
जननान्तत्रासहर त्राहि माममरेश्वर ॥ ३॥

नानोत्पातप्रशमन मनःशान्तिदचिन्तन ।
अधिष्ठितामरपुर त्राहि माममरेश्वर ॥ ४॥

चामुण्डाशक्तिसहित पराजितनिजाहित ।
हितकारिन् महाधीर त्राहि माममरेश्वर ॥ ५॥

प्रणवेशादिभिः पञ्चलिङ्गैस्त्वां सहितं न च ।
पश्यतां भीररिहर त्राहि माममरेश्वर ॥ ६॥

अमरावत्याधिष्ठानममरारिनिषूदनम् ।
वन्दे त्वामखिलाधार त्राहि माममरेश्वर ॥ ७॥

सदा ममास्तु योगस्ते त्वदर्थं मेऽपि सद्गते ।
देहोऽयं तिष्ठतु हर त्राहि माममरेश्वर ॥ ८॥

प्रसीद पार्वतीजाने न जानेऽहं शुभाशुभम् ।
स्मरामि त्वां स्मरहरे त्राहि माममरेश्वर ॥ ९॥

अपराधान्मानसिकान्कायिकानपि वाचिकान् ।
क्षमस्व स्वजनाधार त्राहि माममरेश्वर ॥ १०॥

दोषा अशेषा मम ये ते नश्यन्तु सदाऽभये ।
त्वय्यस्तु हृदयं तार त्राहि माममरेश्वर ॥ ११॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीमदमरेश्वरस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download अमरेश्वरस्तोत्रम् PDF

अमरेश्वरस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App