Misc

अजपाजपस्तोत्रम्

Ajapajapastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अजपाजपस्तोत्रम् ||

ॐ तत्सत् ब्रह्मणे नमः ।
ॐ मूलाधारे वारिजपत्रे चतरस्रे
वंशंषंसं वर्ण विशालं सुविशालम् ।
रक्तंवर्णे श्रीगणनाथं भगवन्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ १॥

स्वाधिष्ठाने षट्दल पद्मे तनुलिङ्गं
बंलांतं तत् वर्णमयाभं सुविशालम् ।
पीतंवर्णं वाक्पति रूपं द्रुहिणन्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ २॥

नाभौ पद्मंयत्रदशाढां डंफं वर्णं
लक्ष्मीकान्तं गरुडारुढं नरवीरम् ।
नीलंवर्णं निर्गुणरूपं निगमान्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ३॥

हृत्पद्मान्ते द्वादशपत्रे कंठं वर्णे
शैवंसाम्ब पारमहंस्यं रमयन्तम् ।
सर्गत्राणाद्यन्तकरन्तं शिवरूपं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ४॥

कण्ठस्थाने चक्रविशुद्धे कमलान्ते
चन्द्राकारे षोडशपत्रे स्वरयुक्ते ।
मायाधीशं जीवविशेषं स्थितिमन्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ५॥

आज्ञाचक्रे भ्रूयुगमध्ये द्विदलान्ते
हंक्षं बीजं ज्ञानसमुद्रं परमन्तम् ।
विद्युद्वर्णं आत्म स्वरूपं निगमाग्रिं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ६॥

मूर्ध्निस्थाने पत्रसहस्रैर्युत पद्मे
पीयूषाब्धेरन्त रङ्गन्त्तं अमृतौचम् ।
हंसाख्यन्तं रूपमतीतं च तुरीयं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ७॥

ब्रह्मानन्दं ब्रह्ममुकुन्दादि स्वरूपं
ब्रह्मज्ञानं ज्ञानमयन्तं तमरूपम् ।
ब्रह्मज्ञानं ज्ञानि मुनीन्द्रै रुचितांङ्गं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ८॥

शान्ताङ्कारं शेषशयानं सुरवन्द्यं
लक्ष्मीकान्तं कोमलगात्रं कमलाक्षम् ।
चिन्तारत्नं चिद्घनपूर्णं द्विजराजं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ९॥

चित् ओङ्कारैः सङ्गनिनादैः अतिवेद्यैः
कादिक्षान्तैर्हक्षरंवर्णैः परिपूर्णम् ।
वेदान्तावेद्यैस्तत् च ज्ञानैरनुवेद्यं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ १०॥

आधारे लिङ्गनाभौ हृदय सरसिजे ।
तालुमूले ललाटे द्वेपत्रे षोडशारे ।
द्विदश दशदले द्वादशर्ये चतुष्के ॥ ११॥

वंसांते बंलंमध्ये डंफं कंठंसहिते ।
कण्ठदेशे स्वराणां हंक्षं तत् चार्थयुक्तम् ।
सकल दलगतं वर्णे रूपं नमामि ॥ १२॥

हंसो गणेशोविधिरेव हंसो
हंसो हरिर्हंस मयश्च शम्भुः ।
हंसोहमात्मा परमात्म हंसो
हंसो हि जीवो गुरुरेवहंसः ॥ १३॥

गमागमस्थङ्गमनादि रूपं
चिद्रूप रूपन्ति मिरायहारम् ।
पश्यामितं सर्वजनां तरस्थं
नमामि हंसं परमात्म रूपम् ॥ १४॥

हंसहंसेतियो ब्रूयाद्योवैनाम सदाशिवः ।
मानवस्तपठेन्नित्यं ब्रह्मलोकं सगच्छति ॥

इति श्री अजपाजपस्तोत्रं समाप्तों तत्सत् ॥

Found a Mistake or Error? Report it Now

Download अजपाजपस्तोत्रम् PDF

अजपाजपस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App