Misc

श्रीसोमेश्वरपञ्चकस्तोत्रम्

Someshvarapanchakastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीसोमेश्वरपञ्चकस्तोत्रम् ||

(शार्दूलविक्रीडितम्)
विश्वं यत्र भवेद्विलीनमखिलं तल्लिङ्गमस्मिन् सदा
सत्यं ज्ञानमनन्तमद्वयमहो ब्रह्म स्फुटं दृश्यते ।
पञ्चब्रह्मसुलक्षणानि हि मुखैर्यः पञ्चभिर्दर्शयन्
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ १॥

नित्यं यत्परिपूर्णलक्षणमिदं ह्यागन्तुकं न स्वकं
मत्वैवं द्विमुखं न दर्शयति नो मन्ये स्फुटं शङ्करम् ।
सत्यज्ञानसुखं मुखत्रयमिदं भक्तेषु सन्दर्शयन्
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ २॥

आश्चर्यं सुमनोहरं विलसितं लिङ्गे सुमूर्तिस्तु या
केनेयं घटिता नरेण न भवेदीशो हि तत्कारणम् ।
लिङ्गेऽहं सततं वसामि सकलानेतद्धि सम्बोधयन्
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ ३॥

भक्तानुग्रहहेतुनैव खलु योऽरूपः सरूपोऽभवत्
भक्तोद्धार इतीह यस्य सततं जागर्ति कीर्तिर्भुवि ।
भक्तिप्रीतिमनिन्दितां हृदिगतां स्पष्टं प्रकुर्वंश्च यः
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ ४॥

प्रत्यग्रूपतया चकास्ति सततं मद्रूपमेतत्परं
मत्वा पश्चिमदिङ्मुखोऽत्र हि शिवो मन्ये स्वयं केवलः ।
योगारूढवपुः स्वरूपममलं चिन्मुद्रया चादिशन्
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ ५॥

इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीसोमेश्वरस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीसोमेश्वरपञ्चकस्तोत्रम् PDF

श्रीसोमेश्वरपञ्चकस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App