Download HinduNidhi App
Misc

श्री बृहस्पति कवचम्

Brahaspati Kavacham Sanskrit

MiscKavach (कवच संग्रह)संस्कृत
Share This

॥ श्री बृहस्पति कवचम् ॥

॥ ॐ गण गणपतये नमः ॥

अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर
ऋषिः, अनुष्टुप् छन्दः, गुरुर्देवता, गं बीजं,
श्रीशक्तिः, क्लीं कीलकं, गुरुप्रीत्यर्थं जपे विनियोगः।

अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।
मुखं मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः ॥

भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वन्द्य ऊरू मे पातु वाक्पतिः ॥

जानुजङ्घे सुराचार्यो पादौ विश्वात्मकस्तथा ।
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥

इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥

॥ इति बृहस्पतिकवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री बृहस्पति कवचम् PDF

Download श्री बृहस्पति कवचम् PDF

श्री बृहस्पति कवचम् PDF

Leave a Comment