Misc

श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम्

Vighneshvara Ashtottarashatanama Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम् ||

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कन्दाग्रजोऽव्ययो पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १॥

अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः ।
सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ॥ २॥

सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितश्शिवः ।
शुद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः ॥ ३॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ॥ ४॥

लम्बोदरश्शूर्पकर्णो हरिर्ब्रह्म विदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ॥ ६॥

बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७॥ विद्वत्प्रियो

श्रीदोऽजोत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ ८॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।
आश्रितश्श्रीकरस्सौम्यो भक्तवाञ्छितदायकः ॥ ९॥

शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः ।
ज्ञानी दयायुतो दान्तो ब्रह्म द्वेषविवर्जितः ॥१०॥

प्रमत्तदैत्यभयदः श्रीकण्ट्ःओ विबुधेश्वरः ।
रमार्चितोविधिर्नागराजयज्ञोपवीतकः ॥११॥

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः ।
स्थूलतुण्डोऽग्रणीर्धीरो वागीशस्सिद्धिदायकः ॥ १२॥

दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ।
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ १३॥

स्वलावण्यसुधासारो जितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥१४॥

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ॥ १५॥

तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुत्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥१६॥

दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥

इति श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम् PDF

श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App