Misc

देवर्षयमूषककृता मूषकगस्तुतिः

Mushakagastutihdevarshayamushakakrrita Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| देवर्षयमूषककृता मूषकगस्तुतिः ||

॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते ।
अन्तर्भोगकरायैव मूषकाय नमो नमः ॥ ६॥

मायया स्तेयरूपिण्या मोहयित्वा चराचरम् ।
चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥ ७॥

चराचरमयायैव चराचरधराय ते ।
सर्वाधीशाय लोकाय कालकालाय ते नमः ॥ ८॥

अनादये महेशाय चतुर्वर्गप्रदायिने ।
गणेशवाहनायैव गणेशध्वजसंस्थित ॥ ९॥

सर्वत्रग गणाधीशस्त्वया हृत्स्थ न संशयः ।
चालकात्मकवीर्यं यद्गणेशस्य त्वमञ्जसा ॥ १०॥

ब्रह्माकारशरीराय स्तेयानां स्वस्वरूपिणे ।
नमो नमः परेशाय चतुर्मयस्वरूपिणे ॥ ११॥

चतुर्णां गणपः पाता त्वया तद्रूपधारिणा ।
भव वाहनमुख्यं वै गणेशस्याऽधुना प्रभो ॥ १२॥

इति स्तुतः प्रसन्नात्मा मूषकस्तानुवाच ह ।
भविष्यामि महाभागा वाहनं गणपस्य च ॥ १३॥

एवमुक्त्वा गणेशानं प्रभुं तुष्टाव लब्धधीः ।
मूषको दर्शनेनैव हर्षयुक्तो महाद्युतिः ॥ १४॥

मूषक उवाच ।
देवाय योगरूपाय नमो मूषकगाय ते ।
गणेशाय परेशाय परात्परतराय ते ॥ १५॥

अनन्ताय महेशाय महेशैः संस्तुताय च ।
विघ्नेशाय महाविघ्नधारिणे ते नमो नमः ॥ १६॥

अनन्तसूनवे तुभ्यं दैत्यदानवमर्दिने ।
देवानां पालकायैव हेरम्बाय नमो नमः ॥ १७॥

स्वानन्दवासिने तुभ्यं भक्तस्वानन्ददायिने ।
ब्रह्मणे ब्रह्मणां चैव पतये ते नमो नमः ॥ १८॥

चतुर्णां चालकायैव चतुःसंयोगमूर्तये ।
चतुर्णां पददात्रे ते तैर्हीनाय नमो नमः ॥ १९॥

योगेशयोगरूपाय योगिभ्यो योगदायिने ।
शान्तिरूपाय वै तुभ्यं शान्तिदाय नमो नमः ॥ २०॥

मूषकवाहनायैव मूषकध्वजिने नमः ।
सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ २१॥

वेदवाक्यप्रमाणेन मां कुरुष्व गजानन ।
वाहनं भक्तिसंयुक्तं सेवायै ते नमो नमः ॥ २२॥

इदं मूषकगो नाम मदीयं तु त्वया धृतम् ।
अतोऽभेदमयीं भक्तिं देहि नाथ नमो नमः ॥ २३॥

मदीयनाथरूपेण नाम ते चाऽभवत् प्रभो ।
ततो मूषकगो भक्तं मां कुरुष्व महाद्भुतम् ॥ २४॥

एवं स्तुत्वा गणाधीशं प्रणनाम स दण्डवत् ।
भक्तिसंयुतमुत्थाप्य गणाधीशो जगाद तम् ॥ २५॥

(फलश्रुतिः)
मूषकग उवाच ।
वाहनं मे सदा साधो भविष्यसि महामते ।
मदीया भक्तिरत्यन्तं सुदृढा ते भविष्यति ॥ २६॥

त्वया कृतमिदं स्तोत्रं मदीयं भक्तिदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं सर्वदं परम् ॥ २७॥

पठते श‍ृण्वते चैतत् पुत्रपौत्रादिकप्रदम् ।
यद्यदिच्छति तत्तद्वै सफलं प्रभविष्यति ॥ २८॥

अन्यत्त्वं श‍ृणु मे वाक्यं देवैर्विप्रैः कृतं महत् ।
स्तवनं सर्वमान्यं ते भविष्यति न संशयः ॥ २९॥

यस्त्वां स्तोष्यति चौरेशस्तोत्रेणानेन मानवः ।
स सर्वं लभते नित्यमीप्सितं नाऽत्र संशयः ॥ ३०॥

अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ।
मदीयकृपया सोऽपि त्वत्समो मे प्रियो भवेत् ॥ ३१॥

इति देवर्षयमूषककृता मूषकगस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download देवर्षयमूषककृता मूषकगस्तुतिः PDF

देवर्षयमूषककृता मूषकगस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App