Misc

अहंकृतं धूम्रवर्णस्तोत्रम्

Dhumravarnastotramahamkrritam Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अहंकृतं धूम्रवर्णस्तोत्रम् ||

॥ श्रीगणेशाय नमः ॥

अहमुवाच ।
धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने ।
अव्यक्तायादिबीजाय परेशाय नमो नमः ॥ १४॥

लम्बोदराय देवाय दैत्यनाथाय ते नमः ।
हेरम्बाय महेशानां पालकाय नमो नमः ॥ १५॥

कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे ।
ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥ १६॥

चराय चररूपाय जङ्गमस्थाय ते नमः ।
स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥ १७॥

स्थावरजङ्गमाभ्यां च हीनाय ते नमो नमः ।
योगाय योगनाथाय योगिने योगदायिने ॥ १८॥

योगेभ्यो योगदात्रे ते नमश्चिन्तामणे नमः ।
शान्ताय शान्तचित्तैस्तु प्राप्याय शान्तमूर्तये ॥ १९॥

ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद ।
सिद्धिनाथाय बुद्धीश तयोर्योगाय ते नमः ॥ २०॥

मूषकोपरि संस्थाय मूषकध्वजधारिणे ।
चतुर्भुजाय स्वानन्दपतये ते नमो नमः ॥ २१॥

किं स्तौमि त्वां गणाधीश धूम्रवर्णस्वरूपिणम् ।
अव्यक्तं वेदवादेषु कथितं सततं प्रभो ॥ २२॥

स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः ।
योगशान्तिधरास्ते कथयितुं ध्रुवमक्षमाः ॥ २३॥

अतस्त्वां धूम्रवर्णाख्यं वदन्ते वेदवादिनः ।
पश्यामि तं धूम्रवर्णमेवाऽहं योगिदुर्लभम् ॥ २४॥

धन्योऽहं सकुलो नाथ त्वदङ्घ्रियुगदर्शनात् ।
एवमुक्त्वा ननर्ताऽसौ भक्तियुक्तो महासुरः ॥ २५॥

निमग्नं तं भक्तिरसे दृष्ट्वा देवो गजाननः ।
जगाद तं महाभागं प्रेमयुक्तं प्रसस्वजे ॥ २६॥

(फलश्रुतिः)
धूम्रवर्ण उवाच ।
वरान् वृणु महाभाग दास्यामि स्तोत्रतोषितः ।
अहङ्कार न सन्देहो न भयं ते भविष्यति ॥ २७॥

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
मम भक्तिप्रदं चैव भविष्यति न संशयः ॥ २८॥

श‍ृणुयाद्यः पठेदेतत्तस्याहङ्कारजं भयम् ।
न भविष्यति दैत्येश भुक्तिमुक्तिप्रदं भवेत् ॥ २९॥

यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः ।
मम प्रियो भवेत् सोऽपि सदा मोहविवर्जितः ॥ ३०॥

इति धूम्रवर्णस्तोत्रं अहङ्कारशान्तिस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download अहंकृतं धूम्रवर्णस्तोत्रम् PDF

अहंकृतं धूम्रवर्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App