Misc

दशाक्षरमन्त्रस्तोत्रम्

Dashaxaramantrastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| दशाक्षरमन्त्रस्तोत्रम् ||

श्रीगणेशाय नमः ।
मुद्गल उवाच ।
असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने ।
अव्यक्तः शङ्करस्तेषां संयोगे गणपो भवेत् ॥ १॥

संयोगे मायया युक्तो गणेशो ब्रह्मनायकः ।
अयोगे मायया हीनो भवति मुनिसत्तमा ॥ २॥

संयोगायोगयोर्योगे योगो गणेशसंज्ञितः ।
शान्तिभ्यः शान्तिदः प्रोक्तो भजने भक्तिसंयुतः ॥ ३॥

एवमुक्त्वा गणेशस्य ददौ मन्त्रं स मुद्गलः ।
एकाक्षरं विधियुतं ततः सोऽन्तर्हितोऽभवत् ॥ ४॥

ततोऽहं गणराजं तमभजं सर्वभावतः ।
तेन शान्ति समायुक्तश्चरामि त्वकुतोभयः ॥ ५॥

न गणेशात्परं ब्रह्म न गणेशात्परं तपः ।
न गणेशात्परं कर्म ज्ञानं न गणपात्परम् ॥ ६॥

न गणेशात्परो योगो भक्तिर्न गणपात्परा ।
तस्मात्स सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः ॥ ७॥

गणेशानं परित्यज्य कर्मज्ञानादिकं चरेत् ।
तत्सर्वं निष्फलं याति भस्मनि प्रहुतं यथा ॥ ८॥

सर्वांस्त्यज्य गणेशं यो भजतेऽनन्यचेतसा ।
सर्वसिद्धिं लभेत्सद्यो ब्रह्मभूतः स कथ्यते ॥ ९॥

एवमुक्त्वाऽत्रितस्तस्मै ददौ मन्त्रं दशाक्षरम् ।
विधियुक्तं ततः साक्षादन्तर्धानं चकार ह ॥ १०॥

इति दशाक्षरमन्त्रस्तोत्रं समाप्तम् ।

Found a Mistake or Error? Report it Now

Download दशाक्षरमन्त्रस्तोत्रम् PDF

दशाक्षरमन्त्रस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App