Misc

श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम्

Guruvatapuranathapancharatnastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम् ||

आदित्यादिप्रभृतिकमिदं चक्षुराद्यं च तेजो
ज्ञानाज्ञाने स्फुरितमखिलं येन नित्यं विभाति ।
तत्तादृक्षे सकलवचनागोचरे स्वप्रकाशे
त्वद्रूपेऽस्मिन् किमिव कथये वातगेहाधिनाथ ॥ १॥

आकाशान्तं जगदखिलमप्यंशमात्रं यदीयं
माया सेयं मरुदधिपते त्वत्स्वरूपैकदेशे ।
स त्वं कोणे क्वचन धरणेस्तिष्ठसे देहधारी
कारुण्यं ते जगति कथये नाथ तादृक् कथं वा ॥ २॥

दृश्यं सर्वं वरद भवतो देह इत्यामनन्त्यां
श्रुत्यां सत्यामपि बत नृणां जायते नैव बुद्धिः ।
इत्थङ्कारं कमपिच नवं कल्पयन् देहभेदं
भासि स्पष्टं तदपि भगवन् भाग्यहीनो जनोऽयम् ॥ ३॥

मर्त्यामर्त्यप्रमुखमखिलं क्षेत्रजातं त्वदीया
मायैव श्रीगुरुपुरपते साऽपि नास्ति त्वदन्या ।
एको देवस्त्वमसि सकलक्षेत्र साक्षी चिदात्मा
तत्वं किञ्चित् पृथगिह विभो त्वां विना नैव जाने ॥ ४॥

सद्रूपाढ्यं भवति भवताऽधिष्ठितं सर्वमेतत्
भानं नाम क्वचिदपि जडे नो भवन्तं विनाऽन्यम् ।
प्रेम श्रीमन् जगति भवति त्वत्प्रतिच्छाययाऽस्मिन्
वातेशासावहमपि भवान् सच्चिदानन्दरूपः ॥ ५॥

इति श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम् PDF

श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App