Misc

श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्

Guruvayupuradhishashtottarashatanamastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम् ||

ध्यानम्
पीताम्बरं करविराजितशङ्खचक्र-
कौमोदकीसरसिजं करुणासमुद्रम् ।
राधासहायमतिसुन्दरमन्दहासं
वातालयेशमनिशां हृदि भावयामि ॥

कृष्णो वातपुराधीशः भक्तकल्पद्रुमः प्रभुः ।
रोगहन्ता परं धामा कलौ सर्वसुखप्रदः ॥ १॥

वातरोगहरो विष्णुः उद्धवादिप्रपूजितः ।
भक्तमानससंविष्टः भक्तकामप्रपूरकः ॥ २॥

लोकविख्यातचारित्रः शङ्कराचार्यपूजितः ।
पाण्ड्येशविषहन्ता च पाण्ड्यराजकृतालयः ॥ ३॥

नारायणकविप्रोक्तस्तोत्रसन्तुष्टमानसः ।
नारायणसरस्तीरवासी नारदपूजितः ॥ ४॥

विप्रनित्यान्नदाता च विविधाकृतिशोभितः ।
तैलाभिषेकसन्तुष्टः सिक्ततैलार्तिहारकः ॥ ५॥

कौपीनदरुजाहन्ता पीताम्बरधरोऽव्ययः ।
क्षीराभिषेकात्सौभाग्यदाता कलियुगप्रभुः ॥ ६॥

निर्माल्यदर्शनाद्भक्तचित्तचिन्तानिवारकः ।
देवकीवसुदेवात्तपुण्यपुञ्जोऽघनाशकः ॥ ७॥

पुष्टिदः कीर्तिदो नित्यकल्याणततिदायकः ।
मन्दारमालासंवीतः मुक्तादामविभूषितः ॥ ८॥

पद्महस्तश्चक्रधारी गदाशङ्खमनोहरः ।
गदापहन्ता गाङ्गेयमोक्षदाता सदोत्सवः ॥ ९॥

गानविद्याप्रदाता च वेणुनादविशारदः ।
भक्तान्नदानसन्तुष्टः वैकुण्ठीकृतकेरळः ॥ १०॥

तुलाभारसमायातजनसर्वार्थदायकः ।
पद्ममाली पद्मनाभः पद्मनेत्रः श्रियःपतिः ॥ ११॥

पादनिस्सृतगाङ्गोदः पुण्यशालिप्रपूजितः ।
तुळसीदामसन्तुष्टः विल्वमङ्गळपूजितः ॥ १२॥

पून्तानविप्रसन्दृष्टदिव्यमङ्गळविग्रहः ।
पावनः परमो धाता पुत्रपौत्रप्रदायकः ॥ १३॥

महारोगहरो वैद्यनाथो वेदविदर्चितः ।
धन्वन्तरिर्धर्मरूपो धनधान्यसुखप्रदः ॥ १४॥

आरोग्यदाता विश्वेशः विधिरुद्रादिसेवितः ।
वेदान्तवेद्यो वागीशः सम्यग्वाक्छक्तिदायकः ॥ १५॥

मन्त्रमूर्तिर्वेदमूर्तिः तेजोमूर्तिः स्तुतिप्रियः ।
पूर्वपुण्यवदाराध्यः महालाभकरो महान् ॥ १६॥

देवकीवसुदेवादिपूजितो राधिकापतिः ।
श्रीरुक्मिणीसत्यभामासंलालितपदाम्बुजः ॥ १७॥

कन्याषोडशसाहस्रकण्ठमाङ्गल्यसूत्रदः ।
अन्नप्राशनसम्प्राप्तबहुबालसुखप्रदः ॥ १८॥

गुरुवायुसुसङ्क्लृप्तसत्प्रतिष्ठः सुरार्चितः ।
पायसान्नप्रियो नित्यङ्गजराशिसमुज्ज्वलः ॥ १९॥

पुराणरत्नपठनश्रवणानन्दपूरितः ।
माङ्गल्यदाननिरतः दक्षिणद्वारकापतिः ॥ २०॥

दीपायुतोत्थसज्ज्वालाप्रकाशितनिजालयः ।
पद्ममालाधरः श्रीमान् पद्मनाभोऽखिलार्थदः ॥ २१॥

आयुर्दाता मृत्युहर्ता रोगनाशनदीक्षितः ।
नवनीतप्रियो नन्दनन्दनो रासनायकः ॥ २२॥

यशोदापुण्यसञ्जातः गोपिकाहृदयस्थितः ।
भक्तार्तिघ्नो भव्यफलः भूतानुग्रहतत्परः ।
दीक्षितानन्तरामोक्तनामसुप्रीतमानसः ॥ २३॥

गुरुवातपुरीशस्य नाम्नामष्टोत्तरं शतम् ।
दीक्षितानन्तरामेण भक्त्या स्तोत्रं कृतं महत् ॥ २४॥

श्रद्धायुक्तः पठेन्नित्यं स्मरन् वातपुराधिपम् ।
तस्य देवो वासुदेवः सर्वार्थफलदो भवेत् ॥ २५॥

इति ब्रह्मश्री सेंगलीपुरं अनन्तरामदीक्षितविरचितं
श्रीगुरुवातपुरीशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम् PDF

श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App