Misc

श्रीगुरुवायुपुराधीशाष्टोत्तरशतनामावलिः

Guruvayupuradhishashtottarashatanamavali Sanskrit

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगुरुवायुपुराधीशाष्टोत्तरशतनामावलिः ||

ॐ श्रीकृष्णाय नमः ।
ॐ वातपुराधीशाय नमः ।
ॐ भक्तकल्पद्रुमाय नमः ।
ॐ प्रभवे नमः ।
ॐ रोगहन्त्रे नमः ।
ॐ परं धाम्ने नमः ।
ॐ कलौ सर्वसुखप्रदाय नमः ।
ॐ वातरोगहराय नमः ।
ॐ विष्णवे नमः ।
ॐ उद्धवादिप्रपूजिताय नमः । १०

ॐ भक्तमानससंविष्टाय नमः ।
ॐ भक्तकामप्रपूरकाय नमः ।
ॐ लोकविख्यातचारित्राय नमः ।
ॐ शङ्कराचार्यपूजिताय नमः ।
ॐ पाण्ड्येशविषहन्त्रे नमः ।
ॐ पाण्ड्यराजकृतालयाय नमः ।
ॐ नारायणकविप्रोक्तस्तोत्रसन्तुष्टमानसाय नमः ।
ॐ नारायणसरस्तीरवासिने नमः ।
ॐ नारदपूजिताय नमः ।
ॐ विप्रनित्यान्नदात्रे नमः । २०

ॐ विविधाकृतिशोभिताय नमः ।
ॐ तैलाभिषेकसन्तुष्टाय नमः ।
ॐ सिक्ततैलार्तिहारकाय नमः ।
ॐ कौपीनदरुजाहन्त्रे नमः ।
ॐ पीताम्बरधराय नमः ।
ॐ अव्ययाय नमः ।
ॐ क्षीराभिषेकात् सौभाग्यदात्रे नमः ।
ॐ कलियुगप्रभवे नमः ।
ॐ निर्माल्यदर्शनात् भक्तचित्तचिन्तानिवारकाय नमः ।
ॐ देवकीवसुदेवात्तपुण्यपुञ्जाय नमः । ३०

ॐ अघनाशकाय नमः ।
ॐ पुष्टिदाय नमः ।
ॐ कीर्तिदाय नमः ।
ॐ नित्यकल्याणततिदायकाय नमः ।
ॐ मन्दारमालासंवीताय नमः ।
ॐ मुक्तादामविभूषिताय नमः ।
ॐ पद्महस्ताय नमः ।
ॐ चक्रधारिणे नमः ।
ॐ गदाशङ्खमनोहराय नमः ।
ॐ गदापहन्त्रे नमः । ४०

ॐ गाङ्गेयमोक्षदात्रे नमः ।
ॐ सदोत्सवाय नमः ।
ॐ गानविद्याप्रदात्रे नमः ।
ॐ वेणुनादविशारदाय नमः ।
ॐ भक्तान्नदानसन्तुष्टाय नमः ।
ॐ वैकुण्ठीकृतकेरलाय नमः ।
ॐ तुलाभारसमायातजनसर्वार्थदायकाय नमः ।
ॐ पद्ममालिने नमः ।
ॐ पद्मनाभाय नमः ।
ॐ पद्मनेत्राय नमः । ५०

ॐ श्रियःपतये नमः ।
ॐ पादनिःसृतगाङ्गोदाय नमः ।
ॐ पुण्यशालिप्रपूजिताय नमः ।
ॐ तुलसीदामसन्तुष्टाय नमः ।
ॐ बिल्वमङ्गलपूजिताय नमः ।
ॐ पून्तानविप्रसंदृष्टदिव्यमङ्गलविग्रहाय नमः ।
ॐ पावनाय नमः ।
ॐ परमाय नमः ।
ॐ धात्रे नमः ।
ॐ पुत्रपौत्रप्रदायकाय नमः । ६०

ॐ महारोगहराय नमः ।
ॐ वैद्यनाथाय नमः ।
ॐ वेदविदर्चिताय नमः ।
ॐ धन्वन्तरये नमः ।
ॐ धर्मरूपाय नमः ।
ॐ धनधान्यसुखप्रदाय नमः ।
ॐ आरोग्यदात्रे नमः ।
ॐ विश्वेशाय नमः ।
ॐ विधिरुद्रादिसेविताय नमः ।
ॐ वेदान्तवेद्याय नमः । ७०

ॐ वागीशाय नमः ।
ॐ सम्यग्वाक्छक्तिदायकाय नमः ।
ॐ मन्त्रमूर्तये नमः ।
ॐ वेदमूर्तये नमः ।
ॐ तेजोमूर्तये नमः ।
ॐ स्तुतिप्रियाय नमः ।
ॐ पूर्वपुण्यवदाराध्याय नमः ।
ॐ महालाभकराय नमः ।
ॐ महते नमः ।
ॐ देवकीवसुदेवादिपूजिताय नमः । ८०

ॐ राधिकापतये नमः ।
ॐ श्रीरुक्मिणीसत्यभामासंलालितपदाम्बुजाय नमः ।
ॐ कन्याषोडशसाहस्रकण्ठमाङ्गल्यसूत्रदाय नमः ।
ॐ अन्नप्राशनसम्प्राप्तबहुबालसुखप्रदाय नमः ।
ॐ गुरुवायुसुसंकॢप्तसप्रतिष्ठाय नमः ।
ॐ सुरार्चिताय नमः ।
ॐ पायसान्नप्रियाय नमः ।
ॐ नित्यङ्गजराशिसमुज्ज्वलाय नमः ।
ॐ पुराणरत्नपठनश्रवणानन्दपूरिताय नमः ।
ॐ माङ्गल्यदाननिरताय नमः । ९०

ॐ दक्षिणद्वारकापतये नमः ।
ॐ दीपायुतोत्थसज्ज्वालाप्रकाशितनिजालयाय नमः ।
ॐ पद्ममालाधराय नमः ।
ॐ श्रीमते नमः ।
ॐ पद्मनाभाय नमः ।
ॐ अखिलार्थदाय नमः ।
ॐ आयुर्दात्रे नमः ।
ॐ मृत्युहर्त्रे नमः ।
ॐ रोगनाशनदीक्षिताय नमः ।
ॐ नवनीतप्रियाय नमः । १००

ॐ नन्दनन्दनाय नमः ।
ॐ रासनायकाय नमः ।
ॐ यशोदापुण्यसञ्जाताय नमः ।
ॐ गोपिकाहृदयस्थिताय नमः ।
ॐ भक्तार्तिघ्नाय नमः ।
ॐ भव्यफलाय नमः ।
ॐ भूतानुग्रहतत्पराय नमः ।
ॐ दीक्षितानन्तरामोक्तनामसुप्रीतमानसाय नमः । १०८
ॐ श्रीगुरुवायुपुराधीशाय नमः ।

इति ब्रह्मश्री सेंगलीपुरं अनन्तरामदीक्षितारविरचिता
श्रीगुरुवायुपुराधीश अथवा
वातपुराष्टोत्तरशतनामावलिः समाप्ता ॥

Found a Mistake or Error? Report it Now

Download श्रीगुरुवायुपुराधीशाष्टोत्तरशतनामावलिः PDF

श्रीगुरुवायुपुराधीशाष्टोत्तरशतनामावलिः PDF

Leave a Comment

Join WhatsApp Channel Download App