Misc

श्रीनन्दकुमाराष्टकम्

Nandakumara Ashtakam Sanskrit

Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीनन्दकुमाराष्टकम् ||

सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं
वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ १॥

सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं
गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ २॥

शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरं
मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ३॥

शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरं
मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् ।
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ४॥

इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरं
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।
वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ५॥

अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ६॥

जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरं
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् ।
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ७॥

वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ८॥

॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीनन्दकुमाराष्टकम् PDF

श्रीनन्दकुमाराष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App