Misc

श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः

Rrishyashrringeshvarastutih Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः ||

कष्टारिवर्गदलनं शिष्टालिसमर्चिताङ्घ्रिपाथोजम् ।
नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥ १॥

प्राणायामैर्ध्यानैनष्टं चित्तं विधाय मुनिवर्याः ।
यत्पश्यन्ति हृदब्जे शान्ताभाग्यं नमामि तत्किञ्चित् ॥ २॥

वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम् ।
खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥ ३॥

शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम् ।
शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि श‍ृङ्गशिवम् ॥ ४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः सम्पूर्णा ।

Found a Mistake or Error? Report it Now

Download श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः PDF

श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App