|| जन्मसागरोत्तारणस्तोत्रम् ||
श्रीगणेशाय नमः ॥
श्रीरामपूजितपदाम्बुज चापपाणे
श्रीचक्रराजकृतवास कृपाम्बुराशे ।
श्रीसेतुमूलचरणप्रवणान्तरङ्ग
श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ १॥
नम्राधवृन्दविनिवारणबद्धदीक्ष
शैलाधिराजतनयापरिरब्धवर्ष्मन् ।
श्रीनाथमुख्यसुरवर्यनिषेविताङ्घ्रे
श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ २॥
शूराहितेभवदनाश्रितपार्श्वभाग
क्रूरारिवर्गविजयप्रद शीघ्रमेव ।
साराखिलागमतदन्तपुराणपङ्क्तेः
श्रीरामनाथ लघु तारय जन्मवार्धिम्॥ ३॥
शब्दादिमेषु विषयेषु समीपगेष्व-
प्यासक्तिगन्धरहितान्निजपादनम्रान् ।
कुर्वाण कामदहनाक्षिलसल्ललाट
श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ ४॥
इति जन्मसागरोत्तारणस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now