|| श्रीमणिवाचकध्यानस्तुतिः ||
यः श्रीमान्मणिवाचको द्विजभवः पुस्ताक्षमालाधरो
भस्मालिप्तकलेवरः शिवपदानन्यान्तरो जैनहा ।
श्रीमद्वाचकसूक्तिभिः पुरवरे श्रीपुण्डरीकाभिधे
नृत्ताधीश्वरमीडयन्परशिवं मुक्तो महान्भातु सः ॥ १॥
मन्त्री पाण्ड्यमहीपतेस्सकलविद्भस्माक्षमालाधरः
साक्षादादिमसद्गुरोस्सकरुणं लब्धात्मबोधो द्विजः ।
विप्राकारसुगोपितेशलिखित श्रीवाचको योगिराट्
ध्येयः श्रीमणिवाचकः सुगतहा नन्दीश्वरांशो महान् ॥ २॥
भस्मोद्धूलितविग्रहं परशिवध्यानैकचित्तं मुदा
रुद्राक्षाभरणं समन्दहसितानन्दाननाम्भोरुहम् ।
शम्भुज्ञानरसालयं त्रिजगतां नाथं सुरैस्सन्नुतं
श्रीमन्तं मणिवाचकं हृदि सदा ध्यायामि नन्द्यात्मकम् ॥ ३॥
इति श्रीमणिवाचकध्यानस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now