Misc

श्रीमलहानिकरेश्वरस्तुतिः

Malahanikareshvarastutih Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीमलहानिकरेश्वरस्तुतिः ||

(श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे)
स्वग्रामगमनवाच्छा सर्वेषां प्रकृतिसिद्धा हि ।
काशीयात्रा तस्मात्काशीश तवैव खलु युक्ता ॥ १॥

शीर्षान्मुक्ताहारव्याजात्स्वर्गापगा शम्भोः ।
गङ्गाधर विस्रस्ता नृत्यं किमु कुर्वतस्तवेशान ॥ २॥

शरदिन्दुसोदरमुखं करनिर्जितपङ्कजं कृपाम्भोधिम् ।
त्वां पश्यन्तं मामिह क्षुत्तृष्णे नैव बाधेते ॥ ३॥

सर्वाङ्गसुन्दर विभो करुणामृतपूरपूरितापङ्ग ।
त्वां चक्षुषी ममेमे न त्यजतः किं करोमि वद शम्भो ॥ ४॥

तस्मात्तवेयमनिशं मूर्तिः प्रस्फुरति चित्तकञ्जाते ।
यद्वत्तथा कुरु त्वं करुणां गिरिजाब्जशिशुभानो ॥ ५॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीमलहानिकरेश्वरस्तुतिः सम्पूर्णा ।

Found a Mistake or Error? Report it Now

Download श्रीमलहानिकरेश्वरस्तुतिः PDF

श्रीमलहानिकरेश्वरस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App