Misc

श्रीमल्लारिस्तवराजस्तोत्रं

Mallaristavarajahstotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीमल्लारिस्तवराजस्तोत्रं ||

ॐ अस्य श्री मल्लारिस्तवराजस्तोत्रमन्त्रस्य स्कन्दऋषिः ।
श्रीमार्त्तण्डभैरवो देवता । अनुष्टुप्छन्दः ।
ममसकलमनोरथसिध्यर्थं जपे विनियोगः ।
नित्यं नमामि भवसागरतारणाय
मल्लारिपादयुगुलं परमार्थरूपम् ।
इन्द्रादि वन्दितमशेषसुखप्रदेयं
चिन्तामणिं सकलमङ्गलकामधेनूम् ॥ १॥

साधूनां वीरमल्लारिमूर्तिध्यानं सुदुर्लभम् ।
रूपं वक्त्रसमाख्यातं कथितं मुनिसत्तम ॥ २॥

ममवाक्यविशेषस्तु नास्तीति वचनं तथा ।
अथवावेदशास्त्रेण सूचितः परमेश्वरः ॥ ३॥

भक्त्या कालेषु भक्तानां गोचरः परमेश्वरः ।
स्तुत्याभ्यासेनभिस्तुत्यं मूर्तिनिस्थापितं शिवम् ॥ ४॥

मणीरत्नगिरौवासि लिङ्गरूपेण संस्थितम् ।
कपालडमरुखड्गं त्रिशूलपात्रमुत्तमम् ॥ ५॥

रतिनेत्रत्रयं नापि शिवरूपेण गद्यते ।
दृश्यते शास्त्रशालायां मुक्तिक्षेत्रं शिवालयम् ॥ ६॥

मल्लारेर्विश्वरूपत्वं प्रेमं दर्शनं कलौ ।
भुक्तिमुक्तिप्रदं देवं मल्लारिसकलोत्तमम् ॥ ७॥

स्थितं व्रतं क्रियाहीनं सेवया मृगयाङ्कितम् ।
अहो भाग्यमहोभाग्यं जीवितं न सुजीवितम् ॥ ८॥

मल्लारिपदपद्मेषु यन्मनो भ्रमराय ते ।
इत्येषसहितो भावस्ततस्तस्य हिताप्तलाम् ॥ ९॥

ददाति देवमल्लारिस्त्रैलोक्यं विजयं शिवम् ।
माता चैव पिता चैव भ्राता चैव गुरुस्तथा ॥ १०॥

बन्धुश्चैव सखाचैव भक्तानां परमेश्वरः ।
लोके मल्लारिदेवेश भूतप्रेतादि बन्धनात् ॥ ११॥

राजचोरादि बाधाच दूरादेव पलायते ।
अज्ञानाद्देवदेवेश कथं पापात्प्रमुच्यते ॥ १२॥

अस्मिन्लोके विनादेवं तमश्रान्तिर्विलीयते ।
हृदिस्थं देव संज्ञात्वा तीर्थयात्रा करोति च ॥ १३॥

अज्ञात्वा प्राङ्गणेऽप्यर्थं वने मृगयतेमधू ।
यत्कारुण्यकटाक्षेयं पात्र भूतायदा जनाः ॥ १४॥

तदा सकललोकेषु बलादि विक्रमान्वितम् ।
न्यासं मधुरमल्लारे भक्तप्राणसुरेश्वरः ॥ १५॥

विश्ववन्दे महाकायं पतितं भवसागरे ।
त्राहि त्राहि जगन्न्नाथ पार्वतिप्राणवल्लभः ॥ १६॥

अनाथरूपणं दिनं सर्वव्याधिनिपीडितम् ।
ब्रूहि मे परमं ज्ञानं भक्तानां भेषजं परम् ॥ १७॥

नमो मल्लारिदेवाय भक्तानां कामधेनवे ।
सत्यानृत्याय देवाय लीलाविक्रमधारिणे ॥ १८॥

नमस्ते वीरमल्लारे मकरध्वजमर्द्दने ।
सर्वयज्ञमयो देवः सर्वतीर्थ्फलं तथा ॥ १९॥

गङ्गाधरनमस्तेऽस्तु नीलकण्ठः नमोऽस्तु ते ।
सर्वज्ञपार्वतिकान्तः पिनाकी त्रिपुरान्तकः ॥ २०॥

स्कन्द उवाच ।
देहिकं च सुखं देहि ऋणव्याधिविवर्जितम् ।
सर्वरोगप्रशमनं सर्वपापप्रणाशनम् ॥ २१॥

देहित्वमचलां भक्तिं तव पादार्चने रतिम् ।
कामक्रोधादिरहितं भुकिमुतिं प्रयच्छ मे ॥ २२॥

ईश्वर उवाच ।
स्तोत्रेणानेन तुष्टोमि नित्यं श्रद्धा समाहितः ।
धृवं तस्मै मया दत्तं वीतमत्रं न संशयः ॥ २३॥

इदं यः पठते भक्तया मल्लारिस्तोत्रमुत्तमम् ।
न तस्य घोरपीडाश्च ग्रहपीडाश्च दारुणः ॥ २४॥

दुःस्वप्ना न प्रथच्छन्ति बालानां शान्तिकारकम् ।
सन्देहो नात्र कर्तव्यो मल्लारेर्वचनं धृवम् ॥ २५॥

इति स्कन्दपुराणे अवन्तिकाण्डे मल्लारिस्तवराजस्तोत्रं सम्पूर्णमस्तु ।

Found a Mistake or Error? Report it Now

Download श्रीमल्लारिस्तवराजस्तोत्रं PDF

श्रीमल्लारिस्तवराजस्तोत्रं PDF

Leave a Comment

Join WhatsApp Channel Download App