Misc

श्रीमल्लिकार्जुनस्तोत्रम्

Mallikarjunastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीमल्लिकार्जुनस्तोत्रम् ||

श्रीकण्ठादिसमस्तरुद्रनमितो वामार्धजानिः शिवः
प्रालेयाचलहारहीरकुमुदक्षीराब्धितुल्यप्रभः ।
विष्वक्सेनविघातमस्तमकुटीरत्नप्रभाभास्वरः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ १॥

इन्द्राद्यामरयातुधानकरवल्लीवेल्लिताशीविषा-
धीशाकर्षितमन्दरागमथिताम्भोराशिजातस्फुर- ।
त्कीलासंहितविस्फुलिङ्गगरलग्रासैकशाम्यद्भयः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ २॥

उद्यद्भासुरकासरासुरभुजादर्पाद्रिदम्भोलिभृ-
त्पाटीरामरधेनुनायकककुद्विन्यस्तहस्ताम्बुजः ।
नीहाराचलकन्यकावहनपादद्वन्द्वपादोरुहः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ३॥

नीरेजासनमुख्यनिर्जरशिरःप्रच्छन्नपादद्वयः
सर्वज्ञत्रिपुरासुराहितगणाम्भोदौघझञ्झानिलः ।
मार्कण्डेयमहामुनीश्वरनुतप्रख्यातचारित्रकः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ४॥

सद्भक्तावलिमानसाम्बुरुहचञ्चच्चञ्चरीको मृडः
क्रीडाबन्धुरपाणिहृत्कमलपोतः कर्णगोकर्णराट् ।
चक्री चक्रसमस्तभूषणगणः कोलासुरध्वंसकः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ५॥

कल्याणाचलकार्मुकप्रथितदुग्धाम्भोधिकन्यामनः
कञ्जातभ्रमरायमाणविलसद्गोविन्दसन्मार्गणः ।
धात्रीस्यन्दनभासमाननलिनीजात(प्त)त्रयीसैन्धवः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ६॥

गोराजोत्तमवाहनः शशिकलालङ्कारजूटः सदा
पद्मानायकसायकस्त्रिभुवनाधीशः पशूनां पतिः ।
भक्ताभीष्टफलप्रदानचतुरः कारुण्यपाथोनिधिः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ७॥

पातालामरवाहिनीवरजलक्रीडासमेतः सदा
रम्भाकननवाटिकाविहरणोद्युक्तस्त्रयीगोचरः ।
फालाक्षो भ्रमराम्बिकाहृदयपङ्केजातपुष्पन्धयः
श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ८॥

॥ इति श्रीमल्लिकार्जुनस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीमल्लिकार्जुनस्तोत्रम् PDF

श्रीमल्लिकार्जुनस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App