|| श्रीसुन्दरभक्तस्तुतिः ||
गौरीशप्रतिबिम्बमद्भुततनुं चाष्टादशाब्दाकृतिं
श्रीजम्बूपुरजन्मभाजमनिशं त्यागेशसेवापरम् ।
गानैर्ग्राहविमुक्तबालजनकानन्दप्रदं वाग्मिनं
वन्दे सुन्दरमूर्तिमीशसुहृदं कैलासवासं सदा ॥ १॥
शैवब्राह्मणवंशजः शिवपरब्रह्मानुबिम्बात्मना
जातो भूगतशाम्भवस्थलवरानेकानटन् सूक्तिभिः ।
स्तावं स्तावममर्त्यगीतविभवोऽमर्त्यात्मनैरावतं
ह्यारूढो रजताद्रिशृङ्गमगमत् श्रीसुन्दरः सेव्यताम् ॥ २॥
इति श्रीसुन्दरभक्तस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now