Misc

अभिलाषाष्टकम्

Abhilaashhashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अभिलाषाष्टकम् ||

॥ अथ अभिलाषाष्टकम् ॥

(शिखरिणी छन्दः)
कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्
रमासंश्लिष्टांगं गगनरुचमापीतवसनम् ।
गदाशंखाम्भोजारिवरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥ १॥

कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये
समासीनं पीठे जलधितनयालिंगिततनुम् ।
स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतम्
स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥ २॥

कदा मामाभीतं भयजलधितस्तापसतनुं
गता रागं गंगातटगिरिगुहावाससहनम् ।
लपन्तं हे विष्णो सुरवर रमेशेति सततं
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥ ३॥

कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ ।
स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥ ४॥

कदा मे भोगाशा निबिडभवपाशादुपरतं
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् ।
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥ ५॥

कदा मे संरुद्धाखिलकरणजालस्य परितो
जिताशेषप्राणानिलपरिकरस्य प्रजपतः ।
सदोंकारं चित्तं हरिपदसरोजे धृतवतः
समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥ ६॥

कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः
शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने ।
वदत्यूर्ध्वं शश्वन्मम वदनकंजे मुहुरहो
करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥ ७॥

कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां
चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः ।
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-
र्गमिष्यामीशस्यांतिकमखिलदुःखांतकमिति ॥ ८॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं
अभिलाषाष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download अभिलाषाष्टकम् PDF

अभिलाषाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App