Misc

किराताष्टकम्

Kiraataashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| किराताष्टकम् ||

॥ श्रीः ॥

श्रीगणेशाय नमः । किरातशास्त्रे नमः ॥

अथ किराताष्टकम् ।
प्रत्यर्थि-व्रात-वक्षःस्थल-रुधिरसुरापानमत्ता पृषत्कं
चापे सन्धाय तिष्ठन् हृदयसरसिजे मामके तापहं तम् ।
पिम्भोत्तंसः शरण्यः पशुपतितनयो नीरदाभः प्रसन्नो
देवः पायादपायात् शबरवपुरसौ सावधानः सदा नः ॥ १॥

आखेटाय वनेचरस्य गिरिजासक्तस्य शम्भोः सुतः
त्रातुं यो भुवनं पुरा समजनि ख्यातः किराताकृतिः ।
कोदण्डक्षुरिकाधरो घनरवः पिञ्छावतंसोज्ज्वलः
स त्वं मामव सर्वदा रिपुगणत्रस्तं दयावारिधे ॥ २॥

यो मां पीडयति प्रसह्य सततं देहीत्यनन्याश्रयं
भित्वा तस्य रिपोरुरः क्षुरिकया शाताग्रया दुर्मतेः ।
देव त्वत्करपङ्कजोल्लसितया श्रीमत्किराताकृतेः
तत्प्राणान् वितरान्तकाय भगवन् कालारिपुत्राञ्जसा ॥ ३॥

विद्धो मर्मसु दुर्वचोभिरसतां सन्तप्तशल्योपमैः
दृप्तानां द्विषतामशान्तमनसां खिन्नोऽस्मि यावद्भृशम् ।
तावत्त्वं क्षुरिकाशरासनधरश्चित्ते ममाविर्भवन्
स्वामिन् देव किरातरूप शमय प्रत्यर्थिगर्वं क्षणात् ॥ ४॥

हर्तुं वित्तमधर्मतो मम रताश्चोराश्च ये दुर्जनाः
तेषां मर्मसु ताडयाशु विशिखैस्त्वत्कार्मुकान्निःसृतैः ।
शास्तारं द्विषतां किरातवपुषं सर्वार्थदं त्वामृते
पश्याम्यत्र पुरारिपुत्र शरणं नान्यं प्रपन्नोऽस्म्यहम् ॥ ५॥

यक्षप्रेतपिशाचभूतनिवहा दुःखप्रदा भीषणाः
बाधन्ते नरशोणितोत्सुकधियो ये मां रिपुप्रेरिताः ।
चाप-ज्या-निनदैस्त्वमीश सकलान् संहृत्य दुष्टग्रहान्
गौरीशात्मज दैवतेश्वर किराताकार संरक्ष माम् ॥ ६॥

द्रोग्धुं ये निरताः त्वमद्य पदपद्मैकान्तभक्ताय मे
मायाछन्नकळेबराश्रुविषदानाद्यैः सदा कर्मभिः ।
वश्यस्तम्भनमारणादिकुशलप्रारम्भदक्षानरीन्
दुष्टान् संहर देवदेव शबराकार त्रिलोकेश्वर ॥ ७॥

तन्वा वा मनसा गिरापि सततं दोषं चिकीर्षत्यलं
त्वत्पादप्रणतस्य निरपराधस्यापि ये मानवाः ।
सर्वान् संहर तान् गिरीशसुत मे तापत्रयौघानपि
त्वामेकं शबराकृते भयहरं नाथं प्रपन्नोऽस्म्यहम् ॥ ८॥

क्लिष्टो राजभटैस्तदापि परिभूतोऽहं खलैर्व्यरिभिः
चान्यैर्घोरतरैर्विपज्जलनिधौ मग्नोऽस्मि दुःखातुरम् ।
हा हा किङ्करवै विभो शबरवेषं त्वामभीष्टार्थदं
वन्देऽहं परदैवतं कुरु कृपानाथार्तबन्धो मयि ॥ ९॥

स्तोत्रं यः प्रजपेत् प्रशान्तकरणैर्नित्यं किराताष्टकं
स क्षिप्रं वशगान् करोति नृपतीनाबद्धवैरानपि ।
संहृत्यात्मविरोधिनः खलजनान् दुष्टग्रहानप्यसौ
यात्यन्ते यमदूतभीतिरहितो दिव्यां गतिं शाश्वतीम् ॥ १०॥

इति किराताष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download किराताष्टकम् PDF

किराताष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App