Misc

पादावलम्बनस्तुतिः

Padavalambanastutih Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| पादावलम्बनस्तुतिः ||

स्थितेऽनुकम्पामकरन्दपूर्णे
जगद्गुरोः पादसहस्रपत्रे ।
किमन्यतो धावसि चित्तभृङ्ग
प्रयाहि तत्रैव रमस्व नित्यम् ॥ १॥

योगिवर्य यमिराजनताङ्घ्रे
भोगिराजनवनीयचरित्र ।
रागिभिन्नमनुजाप्यपदाब्ज
देशिकेन्द्र मम देह्यवलम्बम् ॥ २॥

यद्वचोमधुरिमापजितेमं
लोकमेव विससर्ज सुधाऽपि ।
पादपद्मनतमुक्तिद स त्वं
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ३॥

दातृभावमवगम्य महान्तं
कर्ण आप जनकर्णपथं ते ।
दारिताखिलदरिद्रजनार्ते
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ३॥

शान्तिदान्तिविरतीरपवर्ग-
प्रापिकाः सुदृढमाशु वितीर्य ।
जन्ममृत्युभयरोगयुतस्य
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ४॥

दर्शनात्किल दुरध्वगमर्त्याः
यस्य जातु बहवः कृतकृत्याः ।
सूक्तितस्तु किमु वाच्यमयं त्वं
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ५॥

भस्मदानपरिपूरितनम्रा-
काङ्क्षितार्थ परमात्मविदग्र्य ।
विस्मयावहतुरीयकयात्र
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ६॥

ईहितं वितर सच्चितिसंज्ञ
मोहितस्य जगदीश्वरशक्त्या ।
को हितं मम तनोति विना त्वां
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ७॥

शङ्करार्यकृतसर्वनिबन्ध-
प्रोक्तिपाटवमतीव वितीर्य ।
अश्रुतेऽपि परिभाषणदाक्ष्यं
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ८॥

व्यासजैमिनिकणादपदाक्षैः
पाणिनिप्रभृतिभिर्मुनिवर्यैः ।
प्रोक्तशास्त्रपरिपक्वमनीषां
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ९॥

मारमत्तगजचण्डमृगेन्द्र
दारबन्धुममतागकुठार ।
तारयाशु भववारिनिधेर्मां
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ १०॥

पादधूलिपरिपावितलोक
भेदवादवनदावकृशानो ।
मोदमान परमात्मनि नित्यं
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ११॥

ब्राह्मणत्वमतिदुर्लभमाप्तं
ह्याश्रमश्च समवापि तुरीयः ।
नास्ति रागरहितत्वमपीषत्
देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ १२॥

इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती
श्रीपादैः विरचिता श्रीपादावलम्बनस्तुतिः समाप्ता ।

Found a Mistake or Error? Report it Now

Download पादावलम्बनस्तुतिः PDF

पादावलम्बनस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App