Misc

श्रीपादुकाष्टकम्

Padukashtakam2 Sanskrit

Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीपादुकाष्टकम् ||

श्रीसमज्ञितमव्ययं परमप्रकाशगोचरं
खेदवर्जितमप्रमेयमनन्तमझ्झितकल्मषम् ।
निर्मलं निगमान्तनमद्भुतमप्यतर्क्यमनुत्तमं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ १॥

नादबिन्दु कलात्मकं दशनाद वेद विनोदितं
मन्त्रराजपराजितं निजमण्डलान्तरभासितम् ।
पञ्चवर्णमखण्डमद्भुतमादिकारणमच्युतं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ २॥

हन्तचारुमखण्डनादमनेक वर्णमरूपकं
शब्दजालमयं चराचर जन्तुदेहनिरासिनम् ।
चक्रराजमनाहतोद्भवमेघवर्णमतत्परं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ३॥

बुद्धिरूपमबद्धकं त्रिदैवकूटस्थनिवासिनं
निश्चयं निरतप्रकाशमनेक सद्रुचिरूपकम् ।
पङ्कजान्तरखेलनं निजशुद्धसख्यमगोचरं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ४॥

पञ्चपञ्चहृषिकदेहमनश्च तुष्कपरस्परं
पञ्चभूतनिकामषट्क समीरशब्दमभीकरम् ।
पञ्चकोशगुणत्रयादि समस्तधर्मविलक्षणं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ५॥

पञ्चमुद्रसुलक्ष्यदर्शन भावमात्रनिरूपणं
विद्युदग्नि दग्धतिग विनोद कान्तिविवर्तनम् ।
चिन्मयत्रय वर्तिनं सदसद्विवेकमयायिकं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ६॥

पञ्चवर्णशुकं समस्त रुचिर्विचित्र विचारिणं
चन्द्र सूर्य चिदग्नि मण्डल मण्डितं घन चिन्मयम् ।
चित्कलापरिपूर्णमण्डल चित्समाधिनिरीक्षितं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ७॥

स्थूलसूक्ष्मसकारणान्तरखेलनं परिपालनं
विश्वतैजपप्राज्ञ चेत समन्तरात्मनिजस्थितिम् ।
सर्वकारणमीश्वरं निटलान्तरालविहारिणं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ८॥

तप्तकाञ्चनदीप्यमानमहानुरूपमरूपकं
चन्द्रकान्तरतारकैरवमुज्वलं परमं पदम् ।
नीलनीलरथमध्यमस्थित विद्युदाभविभासितं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ९॥

इति श्रीपादुकाष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीपादुकाष्टकम् PDF

श्रीपादुकाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App