Misc

प्रपत्त्यष्टकम् सार्थम्

Prapattyashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| प्रपत्त्यष्टकम् सार्थम् ||

आवर्तपुर्यां जनितं प्रपद्ये पाण्ड्येशदेशे विहृतं प्रपद्ये ।
शोणाचलप्रस्थचरं प्रपद्ये भिक्षुं तपःक्लेशसहं प्रपद्ये ॥ १॥

आब्रह्मकीटान्तसमं प्रपद्ये जितारिषड्वर्गमहं प्रपद्ये ।
सर्वज्ञतासारभृतं प्रपद्ये निस्सीमकारुण्यनिधिं प्रपद्ये ॥ २॥

अस्मात्प्रपञ्चादधिकं प्रपद्ये विश्वाधिकोक्तेर्विषयं प्रपद्ये ।
कालग्रहग्राहभयापनुत्यै कृतान्तशिक्षाकृतिनं प्रपद्ये ॥ ३॥

विनेतुमार्तिं विषयाध्वजन्यां विज्ञानमूर्तिं दधतं प्रपद्ये ।
कन्दर्पदर्पज्वरवारणाय कामारिलीलावतारं प्रपद्ये ॥ ४॥

आजन्मवर्णिव्रतिनं प्रपद्ये कुण्डीभृतं दण्डधरं प्रपद्ये ।
ब्रह्मासनध्यानरतं प्रपद्ये ब्रह्मात्मभूयं यतिनं प्रपद्ये ॥ ५॥

हरं प्रपद्ये विजरं प्रपद्ये स्वतन्त्रतायाः सदनं प्रपद्ये ।
अमेयसामर्थ्यवहं प्रपद्ये विशुद्धविज्ञानिवरं प्रपद्ये ॥ ६॥

दौर्भाग्य तापत्रय कर्म मोह सन्तापहन्तारमहं प्रपद्ये ।
यथार्थसङ्कल्पमपेतपापमवाप्त कामं विशुचं प्रपद्ये ॥ ७॥

मनः प्रसादं भजतां ददानं मुग्धस्मितोल्लासिमुखं प्रपद्ये ।
व्यथामशेषां व्यपनीय मोदप्रदेन नाम्ना रमणं प्रपद्ये ॥ ८॥

शिवं प्रपद्ये शिवदं प्रपद्ये गुरुं प्रपद्ये गुणिनं प्रपद्ये ।
मदीयहृत्पद्मजुषं प्रपद्ये शरण्यमीशं शरणं प्रपद्ये ॥ ९॥

प्रपत्तिं रमणस्यैतां तन्वतां तत्त्वदर्शिनः
तत्क्रतुन्यायरसिकाः तत्तादृशफलाप्तये ॥ १०॥

॥ इति श्रीजगदीश शास्त्री विरचितं प्रपत्त्यष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download प्रपत्त्यष्टकम् सार्थम् PDF

प्रपत्त्यष्टकम् सार्थम् PDF

Leave a Comment

Join WhatsApp Channel Download App