Misc

प्रार्थनादशकस्तोत्रम्

Prarthanadashakastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| प्रार्थनादशकस्तोत्रम् ||

रमारमण मध्वादिदेशिक श्रीहृदब्जग ।
हयग्रीव कृपालो मे प्रार्थनां श्रुणु सादरम् ॥ १॥

अयोग्यविषये स्वामिन् सर्वथा न मनो भवेत् ।
चाञ्चल्यं मूलतश्छिन्धि दुराशां हर दूरतः ॥ २॥

दुर्बुद्धिं च न मे देहि दुःशास्त्रावर्तने रतिम् ।
हापयस्व च दुर्मानं दुर्गुणं मोचय प्रभो ॥ ३॥

दुःसङ्गं दुष्क्रियां छिन्धि हर लोकाटनात्पदौ ।
न नियोजय चक्षूंषि परदारादिदर्शने ॥ ४॥

दुष्प्रतिग्रहदुस्पर्शे करौ मा चोदय ध्रुवम् ।
अगम्यागमने गुह्यां घ्राणमाघ्राणनेऽसताम् ॥ ५॥

अपकर्षतु जिह्वां मे लोकवार्तादुरन्नतः ।
दुर्वार्तादुष्टशब्देभ्यो निवर्तय हरे श्रुती ॥ ६॥

भवदिच्छानुगं चेतो योग्यसद्विषयं भवेत् ।
यदृच्छालाभसन्तृप्तं निश्चाञ्चल्यं भवेत्वयि ॥ ७॥

सज्ञानं सर्वदा देहि सच्छास्त्रावर्तने रतिम् ।
सत्सङ्गं सत्क्रियां चैव पादौ त्वत्क्षेत्रसर्पणे ॥ ८॥

श्रीमध्वशास्त्रश्रवणे नियङ्क्ष्व श्रवणे सदा ।
हयास्य चक्षुषी चेमे दर्शने सन्नियोजय ॥ ९॥

करौ त्वदर्चने नित्यं सुखतीर्थस्य लेखने ।
त्वदालापे त्वदुच्छिष्टभोजने कुरु जिह्विकाम् ॥ १०॥

घ्राणं भवतु निर्माल्याघ्राणने नमने शिरः ।
देहि मे तु ज्ञानभक्तिपशुपुत्रधनादिकम् ॥ ११॥

प्रार्थनादशनं चैतत् त्रिकाले यः पठेन्नरः ।
तस्याभीष्टं हयास्योऽसौ दत्वा रक्षति सर्वदा ॥ १२॥

॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं प्रार्थनादशकस्तोत्रं समाप्तम् ॥

Found a Mistake or Error? Report it Now

Download प्रार्थनादशकस्तोत्रम् PDF

प्रार्थनादशकस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App