|| श्रीरघूत्तमगुरुस्तोत्रम् ||
गम्भीराशयगुम्भसम्भृतवचःसन्दर्भगर्भोल्लसत्
टीकाभावविबोधनाय जगतां यस्यावतारोऽजनि ।
तत्तादृक्षदुरन्तसन्तततपःसन्तानसन्तोषित
श्रीकान्तं सुगुणं रघूत्तमगुरुं वन्दे परं देशिकम् ॥ १॥
सच्छास्त्रामलभावबोधकिरणैः संवर्धयन् मध्वसत्-
सिद्धान्ताब्धिमनन्तशिष्यकुमुदव्रातं विकासं नयन् ।
उद्भूतो रघुवर्यतीर्थजलधेस्तापत्रयं त्रासयन्
यस्तं नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् ॥ २॥
उद्यन्मार्तण्डसङ्काशं दण्डमालाकमण्डलून् ।
धरं कौपीनसूत्रं च सीताराघवमानसम् ॥ ३॥
श्रीनिवासेन वन्द्याङ्घ्रिं तुलसीदामभूषणम् ।
ध्यायेद्रघूत्तमगुरुं सर्वसौख्यप्रदं नृणाम् ॥ ४॥
रघूत्तमगुरुं नौमि शान्त्यादिगुणमण्डितम् ।
रघूत्तमपदद्वन्द्वकञ्जभृङ्गायितान्तरम् ॥ ५॥
रघूत्तमगुरुं वन्दे रघूत्तमपदार्चकम् ।
गाम्भीर्येणार्थबाहुल्यटीकातात्पर्यबोधकम् ॥ ६॥
भावबोधकृतं नौमि भावभावितभावुकम् ।
भावभाजं भावजादिपरीभावपरायणम् ॥ ७॥
सन्न्यायविवृतेष्टीकाशेषसम्पूर्णकारिणम् ।
टीकां दृष्ट्वा पेटिकानां निचयं च चकार यः
प्रमेयमणिमालानां स्थापनाय महामतिः ॥ ८॥
यच्छिष्यशिष्यशिष्याद्याष्टिप्पण्याचार्यसंज्ञिताः ।
तमलं भावबोधार्यं भूयो भूयो नमाम्यहम् ॥ ९॥
शुकेन शान्त्यादिषु वाङ्मयेषु व्यासेन धैर्येऽम्बुधिनोपमेयम् ।
मनोजजित्यां मनसां हि पत्या रघूत्तमाख्यं स्वगुरुं नमामि ॥ १०॥
राम राम तव पादपङ्कजं चिन्तयामि भवबन्धमुक्तये ।
वन्दितं सुरनरेन्द्रमौलिभिर्ध्यायते मनसि योगिभिः सदा॥ ११॥
पिनाकिनीरसञ्जष्टदेशे वासमनोरमम् ।
पिनाकिपूज्यश्रीमध्वशास्त्रवार्धिनिशाकरम् ॥ १२॥
पञ्चकैर्भावबोधाख्यैर्ग्रन्थैः पञ्च लसन्मुखैः ।
तत्त्वविज्ञापकैः स्वानामुपमेयं पिनाकिना ॥ १३॥
गाम्भीर्ये सर्वदुर्वादिगिरिपक्षविदारणे ।
विषयेषु विरागित्वे चोपमेयं पिनाकिना ॥ १४॥
धरणे भगवन्मूर्तेर्भरणे भक्तसन्ततेः ।
विना विना चोपमेयं मेयं तत्त्वप्रकाशने ॥ १५॥
गुरुत्वेऽखिललोकानां प्रदानेऽभीष्टसन्ततेः ।
शिष्येभ्यस्तत्त्वविज्ञानप्रदाने परमं गुरुम् ॥ १६॥
सदाररामपादाब्जसदारतिसुधाकरम् ।
सदाऽरिभेदने विष्णुगदारिसदृशं सदा ॥ १७॥
रघुनाथाङ्घ्रिसद्भक्तौ रघुनाथानुजायितम् ।
रघुनाथार्यपाण्युत्थरघुवर्यकरोदितम् ॥ १८॥
वेदेशार्चितपादाब्जं वेदेशाङ्घ्र्यब्जपूजकम् ।
रघूत्तमगुरुं वन्दे रघूत्तमपदार्चकम् ॥ १९॥
रघूत्तमगुरुस्तोत्रस्याष्टकं यः पठेन्नरः ।
रघूत्तमप्रसादाच्च स सर्वाभीष्टभाग्भवेत् ॥ २०॥
यद्वृन्दावनपूर्वतः फलवती धात्री जगत्पावनी
याम्यायां तु पिनाकिनी चलदलो मूर्तित्रयाधिष्ठितः ।
वारुण्यां दिशि वामतः प्रतिकृतौ छायाकृता तिन्त्रिणी
तद्वृन्दावनमध्यगो गुरुवरो भूयात् स नः श्रेयसे ॥ २१॥
प्रणमत्कामधेनुं च भजत्सुरतरूपमम् ।
श्रीभावबोधकृत्पादचिन्तामणिमुपास्महे ॥ २२॥
इति श्रीरघूत्तमगुरुस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now