|| श्रीराघवेन्द्रप्रतिकूलस्वानुकूलीकरणस्तोत्रम् ||
श्रीभूपे कूपे सुखवारां कृतचित्तं
चित्ते त्वां ध्यायामि च भूयोऽहममत्तः ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ १॥
राष्ट्रे राष्ट्रे ख्यातयशस्तोम विभासिन्
वासिन् ध्यातुश्चेतसि दातः करुणावान् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ २॥
घोरे संसारे पतितोऽहं तव पुत्रः
कुत्रावेयं त्वामपहाय प्रभुमिष्टम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ३॥
वेदाहं नो सद्गतिहेतुं तव पोतः
पूतं पादादन्यदृते संसृतिवार्धेः ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारपत्याद्यं सकलं कुर्वनुकूलम् ॥ ४॥
द्रावं द्रावं नश्यति कष्टं तव दृष्ट्या
कष्ट्यापं त्वातः कुरु तुष्टं वृषपुष्पम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारपत्याद्यं सकलं कुर्वनुकूलम् ॥ ५॥
यत्यतुच्च त्वद्वरेणुं गतमानौ
दार्यं धार्यं मूर्धनि वार्यन्नदमीढे ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ६॥
नाना नाना दैवकदम्बे सविलम्बे
लम्बे स्मालम्बं सुखदं त्वामविलम्बम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारपत्याद्यं सकलं कुर्वनुकूलम् ॥ ६॥
मन्त्रं ते मन्त्रालयधामन् भुवि जप्तुः
पातुः पादाम्भो लघु नश्यत्यतिदुःखम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ७॥
चक्रेऽष्टश्लोकीमवधूतः कविकृष्णः
तत्पाठेन त्वं भव तुष्टो हर कष्टम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ९॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले
प्रतिकूल-स्वानुकूलीकरणस्तोत्रं नाम सप्तमोऽध्यायः सम्पूर्णः ।
Found a Mistake or Error? Report it Now