Misc

दत्तप्रार्थनास्तोत्रम्

Dattaprarthanastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| दत्तप्रार्थनास्तोत्रम् ||

प्रभो देवदेव प्रभो दत्तदेव । तारकोऽस्माकमकहृत्त्वमेव ॥

प्रभो देव देव प्रभो दत्तदेव ॥ ध्रु ॥

एहि करुणाकरा पाहि परमेश्वरा ।
त्राहि भवसागरादखिलदेव ॥

एहि लघु सन्मते एहि लघु सत्पते ।
देहि लघु सद्गते शुद्धभावम् ॥ १॥

त्वमसि दुरितापहा त्वमसि भवतापहा ।
त्वमसि कुमतापहा सर्वदेव ॥

त्वमसि हितकारकस्त्वमसि भयवारक-।
स्त्वमसि भवतारकः साधुदेव ॥ २॥

त्वमसि मम दैवतं त्वमसि मम जीवितम् ।
त्वमसि मम सकलहितजातमेतत् ॥

त्वमसि मम चालकस्त्वमसि मम पालक-
स्त्वमसि मम तारको दत्तदेव ॥ ३॥

आर्द्रमतिकोमलं सान्द्रकरुणालयम् ।
सान्द्रचितिसोज्वलं सुकृतशीलम् ॥

हृदयमिह विश्रुतं सदयमज ते मतम् ।
सुनय सहसा द्रुतं भवतु देव ॥ ४॥

देव भवदावतस्तीव्रतरतापतः ।
दत्त सन्तापितं माऽभिषिञ्च ॥

सत्कटाक्षामृतैः पूजिताङ्घ्रेऽमृतैः
संस्तुतास्तानृतैः पाहि देव ॥ ५॥

घोरघोरान्धकारावृते सद्गतेऽगाधसंसारकूपे दुरन्ते ।
पतितमतिमन्युना घोरकालाहिना
संवृतं मोचयाश्वोव माऽव ॥ ६॥

घोरभवसागरे सर्वथा दुष्करेऽस्मिन्ननादावनन्तेऽनपारे ।
पतितमिह दुःस्थितं कर्मवाताहतं
प्रोद्धरार्तं प्रभो मां सुभाव ॥ ७॥

मत्समः पापकृत्त्वत्समः पापहृत् ।
नास्त्यपर ईश्वर प्रार्थये तत् ॥

यत्त्वमिच्छसि विभो तत्कुरुष्व प्रभो ।
वासुदेवार्थित श्रीश देव ॥ ८॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयप्रार्थनास्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download दत्तप्रार्थनास्तोत्रम् PDF

दत्तप्रार्थनास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App