|| श्रीबलरामस्तोत्रम् ||
श्रीगणेशाय नमः ।
श्रीः जय राम सदाराम सच्चिदानन्दविग्रह ।
अविद्यापङ्कगलितनिर्मलाकार ते नमः ॥ १॥
जयाखिलजगद्भारधारण श्रमवर्जित ।
तापत्रयविकर्षाय हलं कलयते सदा ॥ २॥
प्रपन्नदीनत्राणाय बलरामाय ते नमः ।
त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ ३॥
प्रपन्नकरुणासिन्धो भक्तप्रिय नमोऽस्तुते ।
चराचरा फणाग्रेण धृता येन वसुन्धरा ॥ ४॥
मामुद्धरास्मद्दुष्पाराद्भवाम्भोधेरपारतः ।
परापराणां परमं परमेश नमोऽस्तु ते ॥ ५॥
इमं स्तवं यः पठति बलरामाधिदैवतम् ।
बलिष्ठः सर्वकार्येषु गरिष्ठः सोऽभिजायते ॥ ६॥
इति श्रीबलरामस्तोत्रम् ।
Found a Mistake or Error? Report it Now