Misc

गोपबालैः कृतं श्रीकृष्णरामस्तोत्रम्

Gopabalaihkrritamshrikrrishnaramastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गोपबालैः कृतं श्रीकृष्णरामस्तोत्रम् ||

अवरुह्य तरुभ्यश्च बालका बलशालिनः ।
फलान्यादाय गच्छन्तो ददृशुर्दैत्यपुङ्गवम् ॥ १८॥

महाबलं महाकायं घोरं गर्दभरूपिणम् ।
आगच्छन्तं महावेगात्कुर्वन्तं शब्दमुल्बणम् ॥ १९॥

तं दृष्ट्वा रुरुदुः सर्वे फलानि तत्यजुर्भिया ।
कृष्णकृष्णेति शब्दं च प्रचक्रुर्बहुधा भृशम् ॥ २०॥

(गोपबाला ऊचुः ।)
अस्मान् रक्ष समागच्छ हे कृष्ण करुणानिधे ।
हे सङ्कर्षण नो रक्ष प्राणा नो यान्ति दानवात् ॥ २१॥

हे कृष्ण हे कृष्ण हरे मुरारे गोविन्द दामोदर दीनबन्धो ।
गोपीश गोपेश भवार्णवेऽस्माननन्त नारायण रक्ष रक्ष ॥ २२॥

भयेऽभये वाथ शुभेऽशुभे वा सुखेषु दुःखेषु च दीननाथ ।
त्वया विनाऽन्यं शरणं भवार्णवे न नोऽस्ति हे माधव रक्ष रक्ष ॥ २३॥

जय जय गुणसिन्धो कृष्ण भक्तैकबन्धो
बहुतरभययुक्तान्बालकान् रक्ष रक्ष ।
जहि दनुजकुलानामीशमस्माकमन्तं
सुरकुलबलदर्पं वर्धयेमं निहत्य ॥ २४॥

इति ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे द्वाविंशाध्यायान्तर्गतं
गोपबालैः धेनुकासुरात् रक्षार्थं कृतं
श्रीकृष्ण-रामस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download गोपबालैः कृतं श्रीकृष्णरामस्तोत्रम् PDF

गोपबालैः कृतं श्रीकृष्णरामस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App